SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ अंतोमुहुत्तं जहन्नयं ॥२०॥एएसिं वन्नओ चेव, गंधओ रसफासओ। संठाणादेसओ वावि, विहाणाई सहस्ससो ॥ २०१॥ ___ मणुएत्यादि सूत्रनवकं प्राग्वत् , नवरम् 'अकम्मकम्मभूमा यत्ति भूमेत्यस्य प्रत्येकमभिसम्बन्धात्सूत्रत्वाचाकर्मभूमौ । भवा अकर्मभूमा एवं कार्मभूमाश्च, अन्तरम्-इह समुद्रमध्यं तस्मिन् द्वीपा अन्तरद्वीपास्तेषु जाता अन्तरद्वीपजाः। 'पनरसतीसइविह'त्ति विधशब्दस्य प्रत्येकमभिसम्बन्धात्पञ्चदशविधाः कार्मभूमाः, कर्मभूमीनां पञ्चदशसङ्ख्यत्वात्, तद्भेदे चामीषामिह भेदस्याभिधित्सितत्वात् , पञ्चदशसङ्ख्यात्वं च भरतैरावतविदेहानां त्रयाणां प्रत्येकं पञ्चसंख्यत्वात् , त्रिंशद्विधा अकर्मभूमाः, अत्राप्यकर्मभूमीनामेतावत्सङ्ख्यत्वं हेतुः, ता हि हैमवतहरिवर्षरम्यकहैरण्यवतदेवकुरूत्तरकुरुरूपाः षट् प्रत्येकं पञ्चसङ्ख्यत्वेन त्रिंशद्भवन्ति, इह च क्रमत इत्युक्तावपि पश्चानिर्दिष्टानामपि कामभूमानां मुक्तिसाधकत्वेन प्राधान्यतः प्रथमं भेदाभिधानं, पठन्ति च-तीसंपन्नरसविहे ति, तत्र च यथोद्देशं सम्बन्धो, भेदाश्चाष्टाविंशतिरन्तरद्वीपजानामिति विभक्तिपरिणामेन सम्बन्धनीयम् , इत्थं चैतत्तत्सङ्ख्यत्वादन्तरद्वीपानां, ते हि हिमवतः पूर्वापरप्रान्तविदिप्रसृतकोटिषु त्रीणि त्रीणि योजनशतान्यवगाह्य तावन्त्येव योजनशतान्यायामविस्तराभ्यां प्रथमेऽन्तरद्वीपाः, ततोऽप्येकैकयोजनशतवृद्धावगाहनया योजनशतचतुष्टयाद्यायामविस्तरा द्वितीयादयः षट्, तेषां च पूर्वोत्तरादिक्रमात्प्रादक्षिण्यतः प्रथमस्य चतुष्कस्य एकोरुक १ आभाषिको २ लाङ्गुलिको ३ वैषाणिक ४ Jain Educational For Private & Personel Use Only S ww.jainelibrary.org
SR No.600068
Book TitleUttaradhyayani Part_3
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy