SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. बृहद्वृत्तिः ॥७०१ ॥ Jain Education Intern चेगं' जोयणसहस्सं वज्जेत्ता मज्झे अट्ठहत्तरजोयणसयसहस्से, एत्थ णं भवणवासीणं देवाणं सत्त भवणकोडीओ वावन्तरिं च भवणावाससयसहस्सा हवंतीति मक्खायं" 'वाणमंतर 'त्ति आर्पत्वाद् विविधान्यन्तराणि - उत्कर्षा - | पकर्षात्मक विशेषरूपाणि निवासभूतानि वा गिरिकन्दरविवरादीनि येषां तेऽमी व्यन्तराः, उक्तं हि "ते सधस्तिर्य| गूर्ध्वं च त्रीनपि लोकान् स्पृशन्तः स्वातव्यात्पराभियोगाच्च प्रायेण प्रतिपतन्त्यनियतगतिप्रचारान्मनुष्यानपि क्वचि - हृत्यवदुपचरन्ति, तथा विविधेषु च शैलकन्दरान्तरवनविवरादिषु प्रतिवसन्त्यतो व्यन्तरा इत्युच्यन्ते, " 'जोइस 'त्ति, द्योतयन्तीति ज्योतींषि - विमानानि तन्निवासित्वाद्देवा अपि ज्योतींषि, ग्रामः समागत इत्यादौ तन्निवासिजनग्रामवत्, विशेषेण मानयन्ति — उपभुञ्जन्ति सुकृतिन एतानीति विमानानि तेषु भवा वैमानिकाः, 'तथे 'ति समुचये इति सूत्रार्थः ॥ एषामेवोत्तरभेदानाह दसहा उ भवणवासी, अट्ठहा वणचारिणो । पंचविहा जोइसिया, दुविहा वेमाणिया तहा ॥ २०३ ॥ 'दशधा वि'ति दशधैव 'भवणवासि'त्ति भवनेषु वस्तुं शीलमेपामिति भवनवासिनः 'अष्टधा' अष्टप्रकारा वनेषु विचित्रोपवनादिषूपलक्षणत्वादन्येषु च विविधास्पदेषु क्रीडैकरसतया चरितुं शीलमेषामिति वनचारिणः - व्यन्तराः १ चैकं योजन सहस्रं वर्जयित्वा मध्येऽष्टसप्ततियोजनशतसहस्रे, अत्र भवनवासिनां देवानां सप्त भवनकोटयो द्वासप्ततिश्च भवनावासशतसहस्राणि (च) भवन्ति इत्याख्यातं For Private & Personal Use Only जीवाजीव विभक्ति ० ३६ ॥७०१ ॥ inelibrary.org
SR No.600068
Book TitleUttaradhyayani Part_3
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy