SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ बाह्याभ्यन्तरभेदभिन्नेन भवति तापसः, सर्वत्राभिधानान्यथाऽनुपपत्तिरिह हेतुः, ननु चान्वर्थवत्त्वेऽभिधानस्यैष हेतुः, तचान्यथाऽपि डित्थादिवत्स्यादत आह-'कर्मणा' क्रियया ब्राह्मणो भवति, उक्तं हि-"क्षमा दानं दमो ध्यानं, है सत्यं शौचं धृति (दया घृणा। ज्ञानविज्ञानमास्तिक्यमेतद्राह्मणलक्षणम् ॥१॥" तथा 'कर्मणा' क्षतत्राणलक्षणेन भवति क्षत्रियः, वैश्यः 'कर्मणा' कृषिपाशुपाल्यादिना भवति, शूद्रो भवति तु 'कर्मणा' शोचनादिहेतुप्रैषादिसंपादनरूपेण, कर्माभावे हि ब्राह्मणादिव्यपदेशा नाऽऽसन्नेवेति, ब्राह्मणप्रक्रमेऽपि यच्छेषाभिधानं तन्मा भून्निरनुक्रोशतेति व्याप्ति-1 दर्शनार्थ, किञ्च-भवन्मतेऽप्युक्तम्-“एकवर्णमिदं सर्वे, पूर्वमासीधुधिष्ठिर ! । क्रियाकर्मविभागेन, चातुर्वण्य है व्यवस्थितम् ॥१॥" किमिदं खमनीषिकयैवोच्यते इत्याह-एतान्' अनन्तरोक्तानहिंसाद्यर्थान् 'प्रादुरकार्षीत्' प्रकटितवान् 'बुद्धः' अवगततत्त्वः, पठ्यते च-'एए पाउकरा धम्मा' 'एते' उक्तरूपाः 'प्रादुष्कराः' नैर्मल्यकारितयाऽऽत्मनः प्रकाशहेतवः 'धर्माः' अहिंसादयो, यैर्भवति 'स्नातकः' केवली सर्वकर्मभिर्विनिर्मुक्तः, इह च प्रत्यासनमुक्तितया सर्वकर्मविनिर्मुक्तः,सुब्ब्यत्ययात्प्रथमार्थे द्वितीया, तमित्यभिहितगुणं तत्त्वतः स्नातकं वा वयं ब्रूमो ब्राह्मणम् । सम्प्रत्युपसंहर्जुमाह-एवम्' उक्तप्रकारेण गुणैः-अहिंसादिभिः समायुक्ताः-समन्विता गुणसमायुक्ता ये भवन्ति 'द्विजोत्तमाः' ब्राह्मणप्रधानास्ते 'समर्थाः' शक्ताः 'तुः' पूरणे उद्धत्तुं संसारादिति गम्यते अर्थान्मुक्तिपदे व्यवस्थापयितुं 'परम्' आत्मव्यतिरिक्तमात्मानमेव वेत्यष्टादशसूत्रगर्भार्थः ॥ अभिधाय चेदमवस्थितो भगवान् , ततश्च in Education in For Private & Personal Use Only jainelibrary.org
SR No.600068
Book TitleUttaradhyayani Part_3
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy