SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ यज्ञीया ध्यय, २५ उत्तराध्य. विधिनेतिभावः, किमित्याह-'न' नैव 'त'मिति प्रक्रमाद्वेदाध्येतारं यष्टारं वा 'त्रायन्ते' रक्षन्ति भवादिति गम्यते, किंविशिष्टं ?-'दुःशीलं' ताभ्यामेव हिंसादिप्रवर्त्तनेन दुराचारं, किमिति ?-यतः 'कर्माणि' ज्ञानावरणादीनि 'बलबृहद्वृत्तिः वन्ति' दुर्गतिनयनं प्रति समर्थानि 'इहे'ति भवदवगमविषये वेदाध्ययने यजने च भवन्तीति गम्यते, पशुबन्धादिકરવા प्रवर्तनेन तयोस्तद्वलाधायकत्वादिति भावः, अनेन दुर्गतिहेतुत्वात्स्वर्गहेतुत्वमप्यनयोः प्रत्युक्तम् , उक्तं हि-"यूपं ६ छित्त्वा पशु हत्वा, कृत्वा रुधिरकर्दमम् । यद्येवं प्राप्यते खर्गो, नरके केन गम्यते ? ॥१॥" अतो नैतद्योगाब्राह्मणः पात्रभूतो भवति, किन्त्वनन्तराभिहितगुण एवेति भावः । अन्यच्च-नेति निषेधे 'अपिः' पूरणे 'मुण्डितेन' केशापनयनात्मकेन समं मनोऽस्येति निरुक्तविधिना श्रमणः-निर्ग्रन्थः, 'न' नैव ॐकारो(रेणोपलक्षणत्वाद् 'ॐ भूर्भुवःस्ख'रित्याधुचारणरूपेण ब्राह्मणः, तथा न मुनिररण्यवासेन, कुशो-दर्भविशेषस्तन्मयं चीवरं कुशचीवरं, वल्कलोपलक्षणमेतत् , तेन तापसः, अनूदितं चैतद्वाचकैः-"मुण्डनात् श्रमणो नैव, संस्कारागाह्मणो न वा । मुनि रण्यवासित्वाद्वल्कलान्न च तापसो॥१॥" भवतीति सर्वत्र शेषः । कथममी तर्हि संभवन्तीत्याह-'समतया' रागद्वेषाभावरूपया श्रमणो भवति, ब्रह्मणश्चरणं ब्रह्मचर्य, ब्रह्म च द्विधा, यत उक्तम्-"द्वे ब्रह्मणी वेदितव्ये, शब्दब्रह्मपरं च यत् । शब्दब्रह्मणि निष्णातः, परं ब्रह्माधिगच्छति ॥१॥” एतानि च पराणि ब्रह्माणि वरिष्ठानि यानि प्रागहिंसादीन्युक्तानीति, एतद्रूपमेवेह ब्रह्मोच्यते, तेन ब्राह्मणो भवति, 'ज्ञानेन' हिताहितावगमरूपेण मुनिर्भवति 'तपसा' ROCHECIRCREACOCONCECAUCAAA% ॥५२८॥ JainEducation int For Private Personal Use Only aorary.org
SR No.600068
Book TitleUttaradhyayani Part_3
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy