SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ ACCORRORSCOM तैरेव वृद्धिं नीयमानतया तन्मध्योत्पन्नोऽपि यस्तं वयं ब्रूमो ब्राह्मणं, तथा च तत्राप्यभिधायि-"यदा सर्व परित्यज्य, निस्सङ्गो निष्परिग्रहः । निश्चिन्तश्च चरेद्धर्म, ब्रह्म सम्पद्यते तदा ॥१॥" इति । इत्थं मूलगुणयोगातात्त्विक ब्राह्मणमभिधायोत्तरगुणयोगतस्तमेवाह-(ग्रन्थाग्रम् १३०००) 'अलोलुपम्' आहारादिष्वलम्पट 'मुहाजीवित्ति सुब्व्यत्ययात् 'मुधाजीविनम्' अज्ञातोछमात्रवृत्ति, पठ्यते च-'मुहाजीवि'त्ति अनगारमकिञ्चनं प्राग्वत् 'असंसक्तम्' असंबद्धं. कैः?-गृहस्थैःः तृतीयार्थे सप्तमी विषयसप्तमी वा, अनेन काका पिण्डविशुद्धिरूपोत्तरगुणयुक्तत्वमुक्तं, 'तम्। उक्तगुणयुक्तमप्येवंविधं सन्तं वयं ब्रूमो ब्राह्मणं, क्वचित् पठ्यते च-'जहित्ता पुत्वसंजोगं, णाइसंगे य बंधवे । जो न सज्जइ भोएहि, तं वयं बूम बंभणं ॥' अत्र 'पूर्वसंयोग' मात्रादिसम्बन्धं 'ज्ञातिसंयोगान्' स्वस्रादिसम्बन्धान , च-1 शब्दो भिन्नक्रमस्ततः 'वान्धवांश्च' भ्रात्रादीन् , शेपं स्पष्टम् , अनेन चातिनिःस्पृहताभिधानेनोत्तरगुणा अप्याक्षिप्ता द्र भवन्ति । स्यादेतद्-वेदाध्ययनं यजनं च भवात्रायकमिति तद्योगादेव पात्रभूतो ब्राह्मणो न तु यथा त्वयोक्त इत्या शङ्कयाह-पशूनां-छागानां बन्धो-विनाशाय नियमनं यैहेतुभिस्तेऽमी पशुबन्धाः 'श्वेतं छागमालभेत वायव्यां दिशि भूतिकाम' इत्यादिवाक्योपलक्षिताः, पाठान्तरतः पशवो बद्धा यैस्ते आहितान्यादेराकृतिगणत्वात् क्तान्तस्य परनिपाते पशुबद्धाः, न तु ये 'आत्मा वारे ज्ञातव्यो मन्तव्यो निदिध्यासितव्यः' इत्यादिवाक्योपलक्षिताः सर्ववेदाः' ऋग्वेदादयः 'जटुंति इष्टं यजनं 'वा' समुच्चये 'पापकर्मणा' पापहेतुभूतपशुबन्धाद्यनुष्ठानेन तु हरिकेशीयाध्ययनोक्त Jain Education india For Private & Personel Use Only jainelibrary.org
SR No.600068
Book TitleUttaradhyayani Part_3
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy