________________
उत्तराध्य.
बृहद्वृत्तिः
॥५२७॥
Jain Education Inter
न व्यपरोपयति 'एतान्' अनन्तरमुक्तरूपान् 'तुः' पूरणे, पठ्यते च - 'विविधेन' मनोवाक्कायरूपतया योगेनेति गम्यते, तं वयं ब्रूमो ब्राह्मणं, तथा चारण्यकेऽप्युक्तम् - " यदा न कुरुते पापं, सर्वभूतेषु दारुणम् । कर्मणा मनसा वाचा, ब्रह्म सम्पद्यते तदा ॥ १ ॥” तथा क्रोधादिभ्यो मृषा न वदति यस्तु तं वयं ब्रूमो ब्राह्मणम्, इह च मानस्य क्रोधो मायायाश्च लोभ उपलक्षणं, प्रायस्तत्सहचरितत्वात्तयोः, तथा च तत्राप्यवाचि - "यदा सर्वानृतं यक्तं, मिथ्याभाषा विवर्जिता । अनवद्यं च भाषेत, ब्रह्म सम्पद्यते तदा ॥ १ ॥ किञ्च - "अश्वमेधसहस्रं च, सत्यं च तुलया धृतम् । अश्वमेधसहस्राद्धि, सत्यमेव विशिष्यते ॥ १ ॥” इति 'चित्तवत्' द्विपदादि 'अचित्तं च' स्वर्णादि 'अल्पं वा सङ्खयया प्रमाणेन च स्तोकं यदिवा 'बहुं' ताभ्यामेव प्रचुरं न गृह्णाति 'अदत्तम्' अनिसृष्टं यस्तं वयं ब्रूमो ब्राह्मणं, तथा च तत्राप्युक्तम् - "परद्रव्यं यदा दृष्ट्वा, आकुले ह्यथवा रहे । धर्मकामो न गृह्णाति, ब्रह्म सम्पद्यते तदा ॥ १ ॥” अन्यच - | दिव्यविषयत्वादिव्यं मानुषविषयत्वान्मानुषं तिर्यक्षु भवं तैरश्वमेषां समाहारो दिव्यमानुषतैरथं यो न सेवते मैथुनं 'मनसा' चित्तेन कायश्च शरीरं वाक्यं च वचनं कायवाक्यं तेन तं वयं ब्रूमो ब्राह्मणं, तथा च तत्राप्युक्तम्- "देवमानुपतिर्यक्षु, मैथुनं वर्जयेद्यदा । कामरागविरक्तश्च ब्रह्म सम्पद्यते तदा ॥ १ ॥ " । अपि च- यथा 'पद्म' कमलं | जले उपलक्षणत्वाज्जलमध्ये 'जातम्' उत्पन्नं तत्परित्यागत उपरि व्यवस्थानतः 'नोपलिप्यते' न लिप्यते 'वारिणा' | जलेन, 'एव' मिति पद्मवत् 'अलित्त'त्ति अलिप्तः - अश्लिष्टः काम्यमानत्वात् कामैः - मनोज्ञैः शब्दादिभिरावाल्यात्
For Private & Personal Use Only
यज्ञीया
ध्यय. २५
॥५२७॥
www.jainelibrary.org