________________
GACADKIS
किमित्येवंविधाः ?-यतोऽविद्यमानं नानात्वं-नानाभावो भेदो येषां तेऽमी अनानात्वाः सूक्ष्माः 'तो'ति तेषु सूक्ष्मबादरपृथिवीजीवेषु मध्ये व्याख्याता इति सूत्रार्थः ॥ एतानेव क्षेत्रत आह
सुहमा य सव्वलोगंमि, लोगदेसे य बायरा। सूक्ष्माः 'सर्वलोके' चतुर्दशरज्ज्वात्मके तत्र सर्वदा तेषां भावात्, लोकस्य देशो-विभागो लोकदेशस्तस्मिन् 'घः' पुनरर्थे बादरास्तेपां क्वचित्कदाचिदसत्त्वेन सकलव्यात्यसम्भवात् ॥ अधुनैतत्कालतोऽभिधित्सुः प्रस्तावनामाह
एत्तो कालविभागं तु, तेसिं बुच्छं चउब्विहं ॥७८ ॥ प्राग्वदिति सूत्रार्थः ॥ यथाप्रतिज्ञातमाह
संतई पप्पऽणाईया, अपजवसिया वि य । ठिई पडुच साईया, सपज्जवसियावि य ॥७९॥ बावीससहस्साई, वासाणुक्कोसिया भवे । आउठिई पुढवीणं, अंतोमुहत्तं जहनिया ॥८॥असंखकालमुक्कोसा, अंतोमुहुत्तं जहन्नयं । कायठिई पुढवीणं, तं कायं तु अमुंचओ॥ ८१॥ अणंतकालमुक्कोसं, अंतोमुहुत्तं जहन्नयं । विजदंमि सए काए, पुढविजीवाण अंतरं ॥ ८२॥
सन्तति' प्रवाहं प्राप्यानादिका अपर्यवसिता अपि च, तेषां प्रवाहतः कदाचिदप्यभावासम्भवात् 'स्थिति' भव& स्थितिरूपां 'प्रतीत्य' आश्रित्य सादिकाः सपर्यवसिता अपि च, द्विविधाया अपि तस्या नियतकालत्वात् । यथा
ADSAXADAM
Join Educatio
n
al
For Private & Personal Use Only
Twww.jainelibrary.org