________________
उत्तरा ११५
Jain E
त्वाद्विशेषणस्य परनिपातः ज्ञानदर्शने उक्तरूपे ते एव सज्ञा- सम्यग्बोधरूपा सञ्जातैपामिति तारकादेराकृतिगणत्वादितचि ज्ञानदर्शनसञ्ज्ञिताः - ज्ञानदर्शनोपयोगवन्तो न विद्यते तुलेव तुला - इयत्ता परिच्छेदहेतुरस्येति अतुलम्, अपरिमितत्वात् उक्तं हि - "सिद्धस्स सुहो रासी सङ्घद्वापिंडितो जर हवेजा । सोऽणतवग्गभइतो सवागासे न माइजा ॥ १ ॥” इति सुखं शर्म समित्येकीभावेन दुःखलेशाकलङ्कितत्वलक्षणेन प्राप्ताः, सुखमेव पुनर्विशिनष्टिउपमा यस्य 'नास्ति तु' न विद्यत एव यदुक्तम् - "लोके तत्सदृशो वर्थः, कृत्लेऽप्यन्यो न विद्यते । उपमीयेत तद्येन, तस्मान्निरुपमं स्मृतम् ॥ १ ॥" न च विषयाभावतस्तत्र सुखशब्दाभिधेयाभाव एवेत्याशङ्कनीयं, चतुरर्थत्वात्तस्य, उक्तं हि लोके चतुविहार्थेषु, सुखशब्दः प्रयुज्यते । विषये वेदनाऽभावे, विपाके मोक्ष एव च ॥ १ ॥ सुखो वह्निः सुखो वायुर्विषयेष्विह कथ्यते । दुःखाभावे च पुरुषः, सुखितोऽस्मीति मन्यते ॥ २॥ पुण्यकर्मविपाकाच्च, सुखमिष्टेन्द्रियार्थजम् । कर्मक्लेशविमोक्षाच, मोक्षे सुखमनुत्तमम् ॥ ३ ॥" ततश्च मोक्षस्यैव तत्र सुखशब्दाभिधेयत्वादसम्भव एवाशङ्कायाः, इह च जीवघना इत्यनेन सौगताभिमतमभावरूपत्वं मुक्तेः उत्तरविशेषणद्वयेन च 'सुखदुःखबुद्धीच्छाद्वेषप्रयत्नधर्माधर्मसंस्कारा नवात्मगुणास्तेषामत्यन्तोच्छित्तिर्निःश्रेयस' मिति वचनादचेतनत्वासुखित्वे च सिद्धस्य | नैयायिकाद्यभिमते निराकुरुते, अभावरूपत्वे हि मुक्तेरर्थक्रिया सामर्थ्य लक्षणत्वाद्वस्तुनोऽन्त्यक्षणस्य क्षणान्तराजनना१ सिद्धस्य सुखराशिः सर्वाद्धापिण्डितो यदि भवेत् । सोऽनन्तवर्गभक्तः सर्वाकाशे न मायात् ॥ १ ॥
For Private & Personal Use Only
114
ww.jainelibrary.org