________________
Jain Education In
जोअणस्स उ जो तत्थ, कोसो उवरिमो भवे । तस्स कोसस्स छन्भाए, सिद्धाणोगाहणा भवे ॥ ६१ ॥ योजनस्य 'तुः' वाक्यालङ्कारोपन्यासे यः 'तत्रे' त्येवं व्यवस्थिते सुध्यत्ययेन वा 'तत्थ'त्ति 'तस्य' इषत्प्राग्भारोपरिवर्त्तिनः पठन्ति च - ' तस्स' त्ति, 'क्रोशः ' गव्यूतम् 'उवरिम' त्ति उपरिवर्त्ती भवेत् 'तस्ये'ति प्रक्रान्तस्य कोशस्य | 'पडागे' सत्रिभागत्रयस्त्रिंशदधिकधनुः शतत्रितयरूपे सिद्धानाम् 'अवगाहना' अवस्थितिर्भवेदिति सूत्रार्थः ॥ अवगाहना च ततश्चलनसम्भवेऽपि परमाण्वादीनामिवैकादिप्रदेशेषु भवेदत आह-तत्थ सूत्रम् । केचिदनन्तरसूत्रोत्तरार्द्धमधीयते - 'कोसस्सवि य जो तत्थ, छब्भागो उवरिमो भवेत्ति स्पष्टं । तत्र च किम् ? इत्याह
तत्थ सिद्धा महाभागा, लोगग्गंमि पट्टिया । भवप्पवंचउम्मुक्का, सिद्धिं वरगईं गया ॥ ६२ ॥
'तत्रे' त्यनन्तरमुपदर्शितरूपे 'सिद्धाः' उक्तरूपाः 'महाभागाः' अतिशयाचिन्त्यशक्तयो लोकाग्रे 'प्रतिष्ठिताः' सदावस्थिताः, एतच्च कुतः ? इत्याह- भवा - नरकादयस्तेषां प्रपञ्चो-विस्तरस्तेनोन्मुक्ताः - त्यक्ताः सन्तः 'सिद्धिं' सिद्धिनाम्नीं वरा चेतरगत्यपेक्षया गतिश्च गम्यमानतया वरगतिस्तां गताः - प्राप्ताः, अयमाशयः - भवप्रपञ्च एव चलने हेतुः स च सिद्धानां नास्तीति कुतस्तेषां तत्सम्भवः ? इति सूत्रार्थः ॥ तत्र गतीनां कस्य कियत्यवगाहना ? इत्याहउस्सेहो जस्स जो होइ, भवंमि चरमंमि उ । तिभागहीणा तत्तो य, सिद्धाणोगाहणा भवे ॥ ६३ ॥ 'उत्सेधः' उच्छ्रयः प्रक्रमाच्छरीरस्य 'जस्स' त्ति 'येषां सिद्धानां 'यः' इति यत्परिमाणो भवति 'भवे' जन्मनि 'चरमे '
For Private & Personal Use Only
w.jainelibrary.org