SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ CHARCHASMASADCASS रिवुज्झणाति वा सबपाणभूयजीवसत्तसुहावहाति वे"त्यादि, 'पृथ्वी' भूमिश्छत्रम्-आतपत्रं तत्संस्थितमिव संस्थितंसंस्थानमस्या इति छत्रसंस्थिता, इह च विशेषानभिधानेऽप्युत्तानमेवेदं गृह्यते, आह यतो भगवान् भद्रबाहुः-"उत्ताणयछत्तयसंठियाउ भणियाउ जिणवरेहिंति" । पञ्चचत्वारिंशच्छतसहस्रान् योजनानां 'तुः' पूरणे 'आयता' दीर्घा 'तावइयं चेव'त्ति तावतश्चैव प्रक्रमाच्छतसहस्रान् ‘विस्तीर्णा' विस्तरतोऽपि, पञ्चचत्वारिंशच्छतसहस्रप्रमाणेति भावः| त्रिगुणः 'तस्सेव'त्ति प्राग्वत् 'तस्माद्' उक्तरूपादायामात् 'परिरयः' परिधिः, इह च त्रिगुण इत्यभिधानेऽपि विशेपाधिक्यं द्रष्टव्यं “सवं वटुं तिगुणं सविसेस'मिति वचनात्, अन्यथा हि पञ्चत्रिंशलक्षाधिकयोजनकोटिरेवैतत्परिमाणं स्यात् , तथा च सूत्रान्तरविरोधो, यतस्तत्रोक्तम्-“एगा जोयणकोडी बायालीसं भवे सयसहस्सं । तीसं चेव 2 सहस्सा दो चेव सया अउणपन्ना ॥१॥” इति, पठन्ति च-'तिउणसाहियपडिरयं'ति । अष्टौ-अष्टसङ्ख्यानि योजदनानि बाहल्यं-स्थौल्यमस्या इत्यष्टयोजनवाहल्या 'से' तीपत्प्राग्भारा, किं सर्वत्राप्येवम् ? इत्साह-'मध्ये' मध्यप्र-3 देशे व्याख्याता, किमित्येवम् ? अत आह-परि-समन्ताद्धीयमाना परिहीयमाना 'चरमंते'त्ति 'चरमान्तेषु' सकल|दिग्भागवर्त्तिषु पर्यन्तप्रदेशेषु मक्षिकायाः पत्रं-पक्षो मक्षिकापत्रम्, अपिशब्दस्य गम्यमानत्वात्तस्मादपि तनुतरी अतिपरिकृशेतियावत्, हानिश्चात्र विशेषानभिधानेऽपि प्रतियोजनमङ्गलपृथक्त्वं द्रष्टव्या, तथा चान्यत्रावाचि१ एका योजनानां कोटी द्वाचत्वारिंशत् भवेयुः शतसहस्राणि । त्रिंशदेव सहस्राणि द्वे एव शते एकोनपञ्चाशत् ॥ १॥ For Private Personal Use Only Jain Education w.jainelibrary.org
SR No.600068
Book TitleUttaradhyayani Part_3
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy