SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ धर्मवदित्यनेन, “दश धर्म न जानन्ति, धृतराष्ट्र ! निबोधत ॥ मत्तः प्रमत्त उन्मत्तः, श्रान्तः क्रुद्धो बुभुक्षितः ॥ त्वरमाणश्च भीरुथ, लुब्धः कामी च ते दश ॥१॥” इति गृह्यत इति, प्रत्यन्तरेषु त्वन्तपादद्वयं न दृश्यत एव ॥ यथाप्रतिज्ञातमाह| संतई पप्प तेऽणाई, अप्पज्जवसिआवि अ। ठिई पडुच्च साईआ, सप्पजवसिआवि अ ॥१२॥ असंखकालमुक्कोसं, इकं समयं जहन्नयं । अजीवाण य रूवीणं, ठिई एसा विआहिआ ॥१३॥ अणंतकालमुक्कोसं, इकं समयं जहण्णयं । अजीवाण य रूवीणं, अंतरेयं विआहि ॥ १४ ॥ - 'सन्ततिम्' उक्तरूपां प्राप्य' आश्रित्य 'ते' इति स्कन्धाः परमाणवश्व 'अणाई'त्ति अनादयोऽपर्यवसिता अपि च, न हि ते कदाचित्प्रवाहतो न भूता न वा न भविष्यन्तीति, 'स्थिति' प्रतिनियतक्षेत्रावस्थानरूपां 'प्रतीत्य' अङ्गीकृत्य सादिकाः सपर्यवसिता अपि च, तदपेक्षया हि प्रथमतस्तथाऽस्थित्वैवावतिष्ठन्ते अवस्थाय च न पुनर्न तिष्ठन्तीत्यभिप्रायः । सादिसपर्यवसितत्वेऽपि कियत्कालमेपामवस्थितिः? इत्याह-'असङ्ख्यकालम्' आगमप्रतीतमुत्कृष्टा, समयमेकं जघन्यका, अजीवानां रूपिणां पुद्गलानामिति योऽर्थः, स्थितिरेषा व्याख्याता, जघन्यत एकसमया उत्कृष्टतस्त्वसङ्खयेयकालम् , असङ्खयेयकालात्परतोऽवश्यमेव विचटनात् । इत्थं कालद्वारमाश्रिय स्थितिरुक्ता, सम्प्रत्येतदन्तर्गतमेवान्तरमाह-'अनन्तकालं' समयप्रसिद्धमुत्कृष्टमेकं समयं जघन्यकमजीवानां रूपिणाम् "अंतरेय'न्ति अन्तरं 4515 Jional उत्तरा. ११३ For Private & Personel Use Only Ddww.jainelibrary.org
SR No.600068
Book TitleUttaradhyayani Part_3
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy