________________
Jain Education
|| देशा-भागाः स्कन्धदेशाः चः प्राग्वत्, तेषां स्कन्धानां प्रदेशा- निरंशा भागास्तत्प्रदेशाः 'तथैव चे 'ति समुच्चये पर| माथ तेऽणवश्च परमाणवः - निर्विभागद्रव्यरूपाः 'चः' समुचये 'बोद्धव्याः' अवगन्तव्या रूपिणः 'चः' पुनरर्थे ततो रूपिणः पुनः 'चतुर्विधाः' चतुष्प्रकाराः ॥ इह च देशप्रदेशानां स्कन्धेष्वेवान्तर्भावात् स्कन्धाः परमाणवश्चेति समासतो द्वावेव रूपिद्रव्यभेदौ, तयोश्च किं लक्षणमित्याह - 'एकत्वेन' समानपरिणतिरूपेण 'पृथक्त्वेन' परमाण्वन्तरेर सङ्घातरूपेण लक्ष्यन्त इति शेषः, के एवम् ? इत्याह-स्कन्धः चस्य भिन्नक्रमत्वात्परमाणवश्च, स्कन्धा हि संहतानेकपर| माणुरूपाः, परमाणवश्च परमाण्वन्तरैरसंहतिभाजः ॥ अथवा उक्तन्यायतो द्वैविध्ये कथममी स्कन्धाः परमाणवश्च जायन्ते ? इत्याह-' एगत्तेण' सूत्रार्द्धम्, एकत्वेन द्वयोश्च त्रयाणां यावदनन्तानामनन्तानन्तानां च पृथग्भूतपरमाणूना| मन्योऽन्यसङ्घाततो द्विप्रदेशिकत्वाद्यात्मक समान परिणतिरूपैकभावेन, तथा 'पृथक्त्वेन' बृहत्स्कन्धेभ्यो विघटनात्मकेन भेदेन, तथा श्वेतो धावतीतिवदावृत्तिन्यायत एकत्वेन पृथक्त्वेन च तत्रैकत्वेन कैश्विदणुभिः संहन्यमानतयैकपरिणतिरूपेण पृथक्त्वेन च तत्समय एव केषाञ्चिदणूनां विचटनाद्भेदात्मकेन 'स्कन्धाः ' द्विप्रदेशादय उत्पद्यन्त इति शेषः, चशब्दस्य प्राग्वत्सम्बन्धात्परमाणवश्च, एकत्वेनेति तृतीया, तत एकत्वेन - असहायत्वेन लक्षितं यत्पृथक्त्वंस्कन्धेभ्यो विघटनात्मकं तेनोत्पद्यन्ते, एकत्वविशेषणं च यत्ससहायानां व्यणुकादीनां वास्तवं यचैकत्वपरिणतावपि | देशादीनां बुद्धिपरिकल्पितं स्कन्धेभ्यः पृथक्त्वं न ततः परमाणव उत्पद्यन्त इत्याचष्टे, तथा चाह वाचक:- "संघाताद्
For Private & Personal Use Only
* * % % अ
www.jainelibrary.org