________________
जीवाजीव विभक्तिः
उत्तराध्य. धर्मश्चाधर्मश्चाकाशं च धर्माधर्माकाशानि त्रीण्यप्येतानि न विद्यते आदिरेषामित्यनादिकानि, इत्यतः कालात्प्र
भृत्यमूनि प्रवृत्तानीत्यसम्भवात् , न पर्यवसितान्यपर्यवसितान्यनन्तानीतियावत् , न हि कुतश्चित्कालात्परत एतानि न बृहद्धत्तिः
भविष्यन्तीति सम्भवः, चैवौ प्राग्वत् , तथा च 'सर्वाद्धा' सर्वकालं, कालात्यन्तसंयोगे द्वितीया, 'तुः' अवधारणेऽतः ॥६७३॥ सर्वदा खखरूपापरित्यागतो नित्यानीतियावद् 'व्याख्यातानि' कथितानि, सर्वत्र लिङ्गव्यत्ययः प्राग्वत् , समयोऽपि
'सन्ततिम्' अपरापरोत्पत्तिरूपप्रवाहात्मिकां प्राप्य' आश्रित्य 'एवमेव' अनाद्यपर्यवसितत्वलक्षणेनैव प्रकारेण |'व्याख्यातः' प्ररूपितः, पठन्ति च-'एमेव संतई पप्प समएवि'त्ति स्पष्टम् , 'आदेशं' विशेष प्रतिनियतव्यक्त्यात्मक 'प्राप्य' अङ्गीकृत्य सादिकः सपर्यवसितः, 'अपिः' समुच्चये 'चः' पुनरर्थे भिन्नक्रमश्च देशं पुनः प्राप्येति योज्यः, विशेषापेक्षया ह्यभूत्वाऽयं भवति भूत्वा च न भवतीति सादिनिधन उच्यत इति सूत्रद्वयार्थः । इत्थमजीवानामरूपिणां ४ द्रव्यक्षेत्रकालैः प्ररूपणा कृता, सम्प्रति भावप्ररूपणावसरः, तत्र चामूर्तत्वेन नामीपां ['ग्रन्थानम्'१७०००] पर्याया
रूपिपर्याया इव वर्णादयः प्ररूप्यमाणा अपि संवित्तिमानेतुं शक्याः अनुमानतस्त्वितरथाऽपि द्रव्यस्य पर्यायविकलस्यासम्भवाद्गम्यन्त एवेति तत्प्ररूपणामनात्य द्रव्यतो रूपिणः प्ररूपयितुमाह
खंधा य खंधदेसा य, तप्पएसा तहेव य । परमाणुणो अ बोद्धव्वा, रूविणो अ चउब्विहा ॥ १०॥ स्कन्दन्ति-शुष्यन्ति धीयन्ते च-पोष्यन्ते च पुद्गलानां विचटनेन चटनेन चेति स्कन्धाः 'चः' समुचये स्कन्धानां
॥६७३।।
Jain Education Inter
For Private Personel Use Only
jainelibrary.org