________________
'धर्माधर्मों' धर्मास्तिकायाधर्मास्तिकायौ 'चः' परणे द्वावप्येतौ 'लोकमात्रौ' लोकपरिमाणौ व्याख्यातौ, नन धर्माधर्मावित्युक्ते द्वाविति गतार्थमेव द्वित्वसङ्ख्याया द्विवचनेनैवाभिधानात् , सत्यं, किन्तु गतार्थानामपि दृश्यते एव लोके प्रयोगः, तथा चाह जिनेन्द्रबुद्धिः-“यदि गतार्थानामप्रयोग एव स्यात् पचति देवदत्त इत्यत्र पचतीत्येतद्गततिवैकत्वस्योक्तत्वाद् देवदत्त इति सुप एकवचनस्याप्राप्तिरेव स्यादिति, लोकमात्रत्वं चानयोरेतदवष्टब्धाकाशस्यैव लोकत्वात् , अलोकव्यापित्वे त्वनयो जीवपुद्गलयोरपि तत्र प्रचारप्रसङ्गेन तस्यापि लोकत्वावाप्तः, उक्तं च-"धर्माधर्मविभुत्वात्सर्वत्र जीवपुद्गलविचारात् । नो लोकः कश्चित्स्यान्न च संमतमेतदार्याणाम् ॥१॥" तथा चैतौ लोक एव नालोक इत्यर्थादुक्तं भवति, तथा 'लोगालोगे य आगासे'त्ति लोकेऽलोके चाऽऽकाशं, सर्वगतत्वात्तस्य, 'समयः' इत्यद्धासमयः समयोपलक्षित क्षेत्रं समयक्षेत्रम्-अर्द्धतृतीयद्वीपसमुद्रास्तद्विषयभूतमस्थास्तीति समयक्षेत्रिकः, तत्परतस्तस्यासम्भवात्, समयमूलत्वादावलिकादिकल्पनायाः तेऽप्येतावत्क्षेत्रवर्तिन एव, तथा चोक्तम्-"समयावलिकापक्षमासवयनसज्ञित्ताः। नृलोक एव कालस्य, वृत्तिर्नान्यत्र कुत्रचित् ॥१॥" इति सूत्रार्थः ॥ एतानेव कालत आह
धम्माधम्मागासा, तिन्निवि एए अणाइया । अपज्जवसिया चेव, सव्वद्धं तु वियाहिया ॥८॥ समएवि संतई पप्प, एवमेव वियाहिए। आएसं पप्प साईए, सपजवसिएवि य ॥९॥
Jain Education
For Private Personal use only
w.jainelibrary.org