________________
उत्तराध्य.
बृहदत्तिः
विभक्ति
॥६७२॥
BE
AGRAMMADCASSAX
देशः-त्रिभागचतुर्भागादिस्तद्देशः, तथा तस्येति-धर्मास्तिकायस्यैव प्रकर्षणान्त्यत्वात्प्रदेशान्तराभावतः क्वचिदप्यनुग-II जीवाजीव तरूपाभावलक्षणेन दिश्यते-प्राग्वदुपदिश्यत इति प्रदेशो-निरंशो भागस्तत्प्रदेशः 'आख्यातः' कथितः, न धारयति-गतिपरिणतावपि जीवपुद्गलांस्तत्वभावतया नावस्थापयति स्थित्युपष्टम्भकत्वात्तस्येत्यधर्मः पदेऽपि पदैकदेशदर्शनादधर्मास्तिकायः 'तस्य' इत्यधर्मास्तिकायस्य 'देशश्च' उक्तरूपः 'तत्प्रदेशश्च' तथाविध एवाख्यातः, तथा आङिति मर्यादया-खखभावापरित्यागरूपया काशन्ते-खरूपेणैव प्रतिभासन्ते तस्मिन् पदार्था इत्याकाशं, यदा त्वभिविधावाङ्तदा आङिति-सर्वभावाभिव्यात्या काशत इत्याकाशं तदेवास्तिकाय आकाशास्तिकायस्तस्य देशस्तत्प्रदेशश्च प्राग्वत् 'आख्यातः' कथितः, तथाऽद्धा-कालस्तद्रूपः समयोऽद्धासमयो निर्विभागत्वाचास्य न देशप्रदेशसम्भवः, आवलिकादयस्तु पूर्वसमयनिरोधेनैवोत्तरसमयसद्भाव इति तत्त्वतः समुदयसमित्याद्यसम्भवेन व्यवहारार्थमेव कल्पिता इतीह नोक्ताः, उपसंहारमाह-अरूपिणः 'दशविधा' इति दशप्रकारा भवेयुः पूर्वत्रिकत्रये एकस्यास्य प्रक्षेपात्, एषां च यथाक्रमं गतिस्थित्यवगाहोपष्टम्भकत्वं वर्तना च लक्षणमवगन्तव्यं, तथा चाऽऽससेनः-"जीवानां पुद्गलानां च, गतिस्थित्युपकारिणौ । धर्माधौं स्थितौ व्योम, त्ववगाहनलक्षणम् ॥१॥ कालस्तु वर्तनालिङ्गः" इत्यादीति सूत्रत्र
॥६७२॥ यार्थः ॥ सम्प्रत्येतानेव क्षेत्रत आह
धम्माधम्मे य दोऽवेए, लोगमित्ता वियाहिया। लोगालोगे य आगासे, समए समयखित्तिए ॥७॥
Jain Educaton International
For Private & Personel Use Only
www.jainelibrary.org