________________
उत्तराध्य.
प्रशस्तं यथा भवत्येवं 'यतते' यत्नवान् भवति, व?-संयमे-उक्तरूपसंयमविषय इति सूत्रार्थः॥ आह-जीवाजी- भाजीवाजीव
वविभक्तिज्ञानमिव लोकालोकविभक्तिज्ञानमपि संयमयतनायां विषयतयोपयुज्यत एवेत्याहबृहद्वृत्तिः ।
विभक्तिः | जीवा चेव अजीवा य, एस लोए वियाहिए। अजीवदेसमागासे अलोए से वियाहिए ॥२॥ ॥६७१॥
VI 'जीवाश्चैवाजीवाश्च' वक्ष्यमाणाः, कोऽर्थः?-जीवाजीवरूपः 'एप'इति प्रतिप्राणि प्रत्यक्षः प्रतीतो लोको विशे
षेणाख्यातः-कथितो व्याख्यातस्तीर्थकृदादिभिरिति गम्यते, जीवाजीवानामेव यथायोगमाधाराधेयतया व्यवस्थितानां लोकत्वाद्, 'अजीवत्ति, अनेनाजीवसमुदाय उपलक्ष्यते, स च धर्माधर्माकाशपुद्गलात्मकस्तस्य देश इत्यं-18 शोऽजीवदेश आकाशमलोकः स व्याख्यातो,-'धर्मादीनां वृत्तिद्रव्याणां भवति यत्र तत्क्षेत्रम् । तैव्यैः सह लोकस्तद्विपरीतं ह्यलोकाख्यम् ॥ १॥” इति भावार्थः ॥ इह च जीवाजीवानां विभक्तिः प्ररूपणाद्वारेणैवेति तां विधित्सुर्यथाऽसौ भवति तथाऽऽहव्वओ खित्तओ चेव, कालओ भावओ तहा । परूवणा तेसि भवे, जीवाणमजीवाण य ॥३॥
॥६७१॥ है। 'द्रव्यतः' द्रव्यमाश्रित्य इदमियद्भेदं द्रव्यमिति, क्षेत्रतश्चैव' इदमियति क्षेत्र इति, 'कालतः' इदमेवंविधकाल* स्थितीति, 'भावतः' इमेऽस्य पर्याया इति तथेति समुच्चये 'प्ररूपणा' यथाखं भेदाद्यभिधानद्वारेण खरूपोपदर्शनं
For Private
Jain Education irlSKill
Silw.jainelibrary.org
Personal Use Only