SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ | जीवाजीव विभक्तयोर्मध्ये द्विविधा सिद्धानामसिद्धानां च, 'अजीवाणं तु'त्ति 'तुः' अपिशब्दार्थस्ततोऽजीवानामपि भवति 'दुविहा उ'त्ति, 'तुः' अवधारणे ततो द्विविधैव रूपिणा मरूपिणां च 'विभाषितव्या' विशेषेण व्यक्तं वक्तव्या यथा 'सूत्रे' प्रक्रान्ताध्ययनरूपे, इह तु प्रक्रमायाताऽपि पौनरुक्त्यप्राप्तेरसौ न प्रतिपाद्यत इति भावः, 'भावे' भावनिक्षेपे विभक्तिः 'खलु' निश्चितं ज्ञातव्या 'पडिधे भावे' पट्प्रकारौदयिकादिभाव विषया, आह-एवमनेकविधायां | विभक्ताविह कयाऽधिकारः १, उच्यते, 'अधिकारः' अधिकृतम् 'अत्रे'ति प्रस्तुते पुनः शब्दो वाक्यान्तरोपन्यासे 'द्रव्यविभक्तत्या' जीवाजीवद्रव्यविभागावस्थापनरूपया, तस्या एवात्र प्रदर्श्यमानत्वादिति भाव इति नियुक्तिगाथा| ऽष्टकावयवार्थः । इत्यवसितो नामनिष्पन्ननिक्षेपः, सम्प्रति सूत्रानुगमे सूत्रमुच्चारणीयं तचेदम् जीवाजीवविभत्तिं मे, सुणेहेगमणा इओ । जं जाणिऊण भिक्खू, सम्मं जयह संजमे ॥ १ ॥ जीवाश्च - उपयोगलक्षणा अजीवाश्च तद्विपरीता जीवाजीवास्तेषां विभजनं विभक्तिः- तत्तद्भेदादिदर्शनतोऽपि | विभागेनावस्थापनं जीवाजीवविभक्तिस्तां 'मे' मम कथयत इति गम्यते 'शृणुत' आकर्णयत शिष्या इति शेषः, पठन्ति |च 'सुणेह मिति, कथम्भूताः सन्त ? – एकं - दर्शनान्तरोक्तजीवाजीव विभक्तावगतत्वेन मनः- चित्तं येषां ते एकमनसः, इहैव श्रद्धानवन्त इत्युक्तं भवति, 'इतः' इत्यस्मादनन्तराध्ययनादेतद्विषयात् श्रवणाद्वाऽनन्तरं यां जीवाजीवविभक्तिं ज्ञात्वा 'भिक्षुः' अनगारः पाठान्तरतः श्रमणो वा सम्यगिति - प्रशंसार्थी निपातः, ततश्च सम्यक् - Jain Education International For Private & Personal Use Only w.jainelibrary.org
SR No.600068
Book TitleUttaradhyayani Part_3
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy