________________
उत्तराध्य.
वृहद्वृत्तिः
॥६७०॥
Jain Education Int
सिद्धाणमसिद्धाण य अज्जीवाणं तु होइ दुविहा उ । रूवीणमरूवीण य विभासियब्वा जहा सुत्ते ॥ ५५५ ॥ | भावंमि विभत्ती खल्लु नायवा छविहंमि भावंमि । अहिगारो इत्थं पुण दवविभत्तीइ अज्झयणे ॥५५६ ॥
क्यादि गाथा अष्ट व्याख्यातप्राया एव, नवरं तव्यतिरिक्तश्च 'जीवद्रव्यं' द्रव्यजीव उच्यत इति प्रक्रमः 'तुः' विशेषद्योतकः, स चायं विशेष:-यथा न कदाचित्तत्पर्यायवियुक्तं द्रव्यं तथाऽपि च यदा तद्वियुक्ततया विवक्ष्यते तदा तद्द्रव्यप्राधान्यतो द्रव्यजीवः, भावे तु दशविधः 'खलुः' अवधारणे दशविध एव परिणामः कर्मक्षयोपशमोद| यापेक्षपरिणतिरूपो जीवद्रव्यस्य सम्वन्धी जीवादनन्यत्वेन जीवतया विवक्षितो जीव इति प्रक्रमः, तत्र च क्षायोपशमिकाः षट् पञ्चेन्द्रियाणि षष्ठं मनः औदयिकाः क्रोधादयश्चत्वारो मीलिता दश भवन्ति । एवमजीवनिक्षेपेऽपि यदा पुद्गलद्रव्यमजीवरूपं सकलगुणपर्यायविकलतया कल्प्यते तदा तद्यतिरिक्तो द्रव्याजीवः, भावे चाजीवद्रव्यस्यपुद्गलस्य दशविधः परिणामोऽजीव इति प्रक्रमः, स च शब्दादयः पञ्च शुभाशुभतया भेदेन विवक्षिताः, तथा च सम्प्र| दायः - शब्द स्पर्शरस रूपगन्धाः शुभाश्राशुभाचे 'ति । तथा विभक्तिनिक्षेपे सति विभक्तिर्भवेत् 'द्विविधा' द्विप्रकारा, द्वैविध्यं चास्याः सम्बन्धिभेदादेवेति तमाह-जीवानामजीवानां च, कोऽर्थः ? - जीवविभक्तिः - जीवानां विभागेनावस्थापनम्, एवमजीवविभक्तिश्च, उत्तरत्राप्येवमेव सम्बन्धिभेदाद्भेदो व्याख्येयः, 'तर्हि 'ति वचनव्यत्ययात् 'तयोः'
For Private & Personal Use Only
जीवाजीव
विभक्ति०
३६
॥६७०॥
Kainelibrary.org