________________
एवंविधश्च सन् भिक्षुः 'विरतः' निवृत्तः स्यादिति शेषः, कुतः१-क्रयो-मूल्येनान्यसम्बन्धिनस्तथाविधवस्तुनः खीकारो विक्रयश्च तस्यैवात्मीयस्य तथाविधवस्तुजातेनान्यस्य दानं, क्रयश्च विक्रयश्च क्रयविक्रयमिति समाहारस्तस्मात्, पञ्चम्यर्थे सप्तमी, विषयसप्तमी वा, तत्र च-क्रयविक्रयविषये, 'विरतः' इति विरतिमानित्यर्थः । किमित्येवम् अत आह-क्रीणानः-परकीयं वस्तु मूल्येनाददानः क्रयोऽस्यास्तीति क्रयिको भवति-तथाविधेतरलोकसदृश एव भवति, विक्रीणानश्च-खकीयं वस्तु तथैव परस्य ददद्वणिगू भवति, वाणिज्यप्रवृत्तत्वादिति भावः, अत एव च 'क्रयविक्रये' उक्तरूपे 'वर्तमानः' प्रवर्त्तमानो भिक्षुर्भवति न तादृशो, गम्यमानत्वाद्याशः सूत्राभिहितो भावभिक्षुरिति भावः । ततः किमित्याह-भिक्षितव्यं' याचितव्यं तथाविधं वस्त्विति गम्यते, 'न' नैव | 'क्रेतव्यं' मूल्येन ग्रहीतव्यं, केन -भिक्षुणा, कीदृशा-भिक्षयैव वृत्तिः-वर्तनं निर्वहणं यस्यासौ भिक्षावृत्तिस्तेन, उक्तं हि-"संबं से जाइयं होइ नत्थि किंचि अजाइयं "ति, क्रयविक्रयवद्भिक्षाऽपि सदोषैव भविष्यतीति मन्दधीर्मन्यते, तत आह-क्रयश्च विक्रयश्च क्रयविक्रयं व्यवच्छेदफलत्वादस्य तदेव महादोषमुक्तन्यायतः, लिङ्गव्यत्य
यश्च प्राग्वत्, भिक्षया वृत्तिर्भिक्षावृत्तिः शुभं-इहलोकपरलोकयोः कल्याणं सुखं वा तदावहति-समन्तात्प्रापयदातीति शुभावहा सुखावहा वा, अनेन क्रीतदोपपरिहार उक्तः, स चाशेषविशुद्धकोटिगतदोपपरिहारोपलक्षणम् ।
१ सर्व तस्य याचितं भवति नास्ति किश्चियाचितम् ।
For Private
Jain Education
N
Personal Use Only
ainelibrary.org