SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ अनगारगतिमार्गा बृहद्वृत्तिः उत्तराध्य. विसर्प-खल्पमपि बहु भवति, यत उक्तम्-"अण थोवं वण थोवं अग्गी थोव"मित्यादि, सर्वतः-सर्वासु दिक्षु धारेव धारा-जीवविनाशिका शक्तिरस्येति सर्वतोधारं सर्वदिगवस्थितजन्तूपघातकत्वात् , उक्तं च-"पाईणं पडीणं वावी-" तत्यादि, अत एव 'बहुप्राणविनाशनम्' अनेकजीवजीवितव्यपरोपकं 'नास्ति' न विद्यते 'ज्योतिःसमम्' अमितुल्यं ॥६६६॥ शस्यन्ते-हिंस्यन्तेऽनेन प्राणिन इति शस्त्रं-प्रहरणमन्यदिति गम्यते तस्याविसर्पत्वादसर्वतोधारत्वादल्पजन्तूपघातक त्वाचेति भावः, सर्वत्र लिङ्गव्यत्ययः प्राग्वत्, यस्मादेवं तस्मात् 'ज्योतिः' वैश्वानरं 'न दीपयेत्' न ज्वालयेत् , अनेन च पचनस्याग्निज्वलनाविनाभावित्वात्तत्परिहार एव समर्थितः, इत्थं च विशेषप्रक्रमे च सामान्याभिधानं प्रसङ्गतः शीतापनोदादिप्रयोजनेऽपि तदारम्भनिषेधार्थम् , आधाकर्मादिका वा विशुद्धकोटिरनेनैवार्थतः परिहार्योक्ता, तदपरिहारे ह्यवश्यम्भावी पचनानुमत्यादिप्रसङ्ग इति । नन्वेवं जीववधनिमित्चत्वमेव पचनादेनिषेधनिबन्धनं, तच नास्ति क्रयविक्रययोरिति युक्तमेवाभ्यां निर्वहण(मेव)मपि कस्यचिदाशङ्का स्यादतस्तदपनोदाय हिरण्यादिपरिग्रहपूर्वकत्वात्तयोस्तनिषेधपूर्वकं सूत्रत्रयेण तत्परिहारमाह-हिरण्यं कनकं 'जातरूपं' रूप्यं चकारोऽनुक्ताशेषधनधान्यादिसमु चये 'मनसाऽपि' चित्तेनाप्यास्तां वाचा 'न प्रार्थयेत्' ममामुकं स्यादिति, अपेर्गम्यमानत्वात्प्रार्थयेदपि न, किं पुनः हपरिगृहीया, कीदृशः सन् १-समे-प्रतिबन्धाभावतस्तुल्ये लेष्टकाञ्चने-मृत्पिण्डखण्डकनके अस्येति समलेष्टुकाञ्चनः, १ ऋणं स्तोकं व्रणं स्तोकं अग्निः स्तोकः कषायः स्तोकश्च । ॥६६६॥ Jain Education inte For Private & Personel Use Only Wjainelibrary.org
SR No.600068
Book TitleUttaradhyayani Part_3
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy