________________
अथ अनगारमार्गगतिरितिनाम पंचत्रिंशत्तममध्ययनम् ।
व्याख्यातं लेश्याध्ययननामकं चतुस्त्रिंशमध्ययनम् , अधुना पञ्चत्रिंशमारभ्यते, अस्य चायमभिसम्बन्धःअनन्तराध्ययने लेश्या अभिहिताः, तदभिधाने चायमाशयः-अशुभानुभावलेश्यात्यागतः शुभानुभावा एव लेश्या अधिष्ठातव्याः, एतच्च भिक्षुगुणव्यवस्थितेन सम्यग्विधातुं शक्यं, तद्यवस्थानं च तत्परिज्ञानत इति तदर्थमिदमारभ्यते, एतत्सम्बन्धागतस्य चास्यानुयोगद्वारचतुष्टयं प्राग्वद्वर्णनीयं यावन्नामनिष्पन्ननिक्षेपे अनगारमार्गगतिरिति नाम, अतोऽनगारमार्गगतीनां त्रयाणामपि पदानां निक्षेपायाह नियुक्तिकृत् अणगारे निक्खेवो चउविहो दुविह होइ नायवो। ॥५४६ ॥ जाणगभवियसरीरे तवइरित्ते अ निहगाईसु । भावे सम्मट्टिी अगारवासा विणिम्मुक्को ॥ ५४७ ॥ मग्गगईणं दुण्हवि पुबुदिट्टो चउक्कनिक्खेवो । अहिगारो भावमग्गे सिद्धिगईए उ नायबो॥ ५४८॥
गाथात्रयं स्पष्टमेव, नवरं तयतिरिक्तश्च निहवादिषु, आदिशब्दादन्येष्वपि चरित्रपरिणामं विना गृहाभाववत्सु, निर्धारणे सप्तमी, ततश्च यस्तेषु मध्येऽनगारत्वेन लोके रूढ इत्युपस्कारः, स तयतिरिक्तो द्रव्यानगारो, भावे 'सम्य-||
उत्तरा. १११
For Private & Personel Use Only
jainelibrary.org