________________
R
उत्तराध्य.
लेश्याध्य
-
बृहद्वृत्तिः
यनं. ३४
॥६६॥
S
तेउ पम्हा सुक्का तिन्निवि एयाउ धम्मलेसाउ । एयाहि तिहिवि जीवो सुग्गइं उववजई ।। ५७॥ कृष्णा नीला कापोतास्तिस्रोऽप्येता अधर्मलेश्याः, पापोपादानहेतुत्वात् , पाठान्तरतोऽधमलेश्या वा, तिसृणामप्यविशुद्धत्वेनाप्रशस्तत्वात् , यद्येवं ततः किमित्याह-एताभिः' अनन्तरोक्ताभिः 'तिसृभिरपि' कृष्णादिलेश्याभिः 'जीवः' जन्तुः 'दुर्गतिं' नरकतिर्यग्गतिरूपाम् 'उपपद्यते' प्राप्नोति, सुब्व्यत्ययाद्वा दुर्गतौ 'उपपद्यते' जायते, संक्लिष्टत्वेन तत्प्रायोग्यायुष एव तद्वतां वन्धसम्भवादिति भावः। तथा तैजसी पद्मा शुक्लास्तिस्रोऽप्येताः 'धर्मलेश्याः' प्रधानलेश्याः, विशुद्धत्वेनासां धर्महेतुत्वात् , तथा चागमः-"तओ लेसाओ अविसुद्धाओ तो विसुद्धाओ ततो पसत्थाओ तओ अपसत्थाओ तओ संकिलिट्ठाओ तओ असंकिलिट्ठाओ तओ दुग्गतिगामियाओ तओ सुगतिगामियाओ।" अत एव 'एताभिस्तिसृभिः' तैजस्यादिलेश्याभिर्जीवः 'सोगतितिसुगति' देवमनुष्यगतिलक्षणां मुक्तिं वोपपद्यते, यद्वा प्राग्वसुगतौ 'उत्पद्यते' जायते, तथाविधायुवन्धतः सकलकमापगमतश्चेति सूत्रद्वयभावार्थः। उक्तं गतिद्वारं, साम्प्रतमायु
रावसरः, तत्र च यस्या लेश्याया यदायुषो मानं तस्थितिद्वार एवार्थतोऽभिहितम् , इह त्विदमुच्यते-अवश्यं हि जन्तुर्यल्लेश्येपूत्पद्यते तल्लेश्य एव म्रियते, यत आगमः-"जल्लेसाई दवाई परियाइत्ता कालं करेइ तलेसो उववजई"त्ति, तथेहैव वक्ष्यति “अंतोमुहुर्तमि गए" इत्यादि तत्र जन्मान्तरभाविलेश्यायाः किं प्रथमसमये परभवायुष उदय आहोखिचरमसमयेऽन्यथा वेति संशयापनोदानायाह
॥६६॥
OORKERSE
Jain Education Inter
For Private & Personel Use Only
ainelibrary.org