________________
R454646
सहस्साई' इत्यादि स्पष्टमेव, नवरमनेन निकायभेदमनङ्गीकृत्यैव लेश्यास्थितिरुक्ता, इह च दशवर्षसहस्राणि जघन्या तेजस्याः स्थितिरभिहिता, प्रक्रमानुरूप्येण तु योत्कृष्टा कापोतायाः स्थितिरसावेवास्याः समयाधिका प्राप्नोति, अधीयते च केचनानन्तरसूत्रत्रयस्थाने-'जा काऊइ ठिई खलु उक्कोसे' त्यादि तदत्र तत्त्वं न विद्मः। पद्मायाः स्थितिमाहया तेजस्याः स्थितिः खलुत्कृष्टा 'सा उत्ति सैव समयाभ्यधिका जघन्येन पद्मायाः स्थितिरिति प्रक्रमः, 'दश तु' इति दशैव प्रस्तावात्सागरोपमाणि मुहूर्त्ताधिकान्युत्कृष्टा, इयं च जघन्या सनत्कुमारे उत्कृष्टा च ब्रह्मलोके, तयोरेवैतदायुष्कसम्भवात् , आह-यदीहान्तर्मुहूर्तमधिकमुच्यते ततः पूर्वत्रापि किं न तदधिकमुच्यते ? देवभवलेश्याया एव तत्र विवक्षितत्वात् , प्रतिज्ञातं हि 'तेण परं वोच्छामि लेसाण ठिई तु देवाणं'ति, एवं सतीहान्तर्मुहाधिकत्वं विरुध्यते, न
अभिप्रायापरिज्ञानात्, अत्र हि प्रागुत्तरभवलेश्याऽपि “अंतोमुहुत्तमि गए"त्ति वचनाद्देवभवसम्बन्धिन्येवेति प्रदर्श-, हैनार्थमित्थमुक्तमिति न विरोध इति भावनीयम् । शुक्ललेश्यास्थितिमाह-या पद्मायाः स्थितिः खलुत्कृष्टा 'सा उत्ति
सैव समयाभ्यधिका जघन्येन शुक्लायाः स्थितिरिति प्रक्रमः, त्रयस्त्रिंशत् 'मुहुत्तमम्भहियत्ति प्राग्वन्मुहूर्त्ताभ्यधिकानि सागरोपमाण्युत्कृष्टेति गम्यते, अस्याश्च लान्तकाभिधानपष्टदेवलोकात्प्रभृति यावत्सर्वार्थसिद्धस्तावत्सम्भवः, अत्रैवैतावदायुषः सद्भाव इतिकृत्वेति पञ्चदशसूत्रार्थः ॥ उक्तं स्थितिद्वारं, साम्प्रतं गतिद्वारमाह
किण्हा नीला काऊ तिन्निवि लेसाउ अहम्मलेसाउ । एयाहि तिहिवि जीवो दुग्गइं उबवजई ॥५
Jain Education
For Private & Personal Use Only
Ww.jainelibrary.org