SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. वृहद्वृत्तिः ॥५२५॥ Jain Education In धर्म उक्तः, तथा च तद्वचः- “सत्यं तपः सन्तोषः संयमश्चारित्रमार्जवं क्षमा धृतिः श्रद्धाऽहिंसेत्येतद्दशविधमिह धामेति, तत्र च धामशब्देन धर्म एव विवक्षितः, एतदनुवाद्युक्तरूपमेवाग्निहोत्रमिति, तथा यज्ञः प्रस्तावाद्भाव| यज्ञस्तदर्थी 'वेयसि 'त्ति वेदेन हेतुनाऽस्यति - अशुभानि कर्माणि क्षिपतीति निरुक्तविधिना वेदसो - यागः, उक्तं चनिर्घण्टे - " अध्वरो वेपो वेषो मखो वेदा वितथः” इत्यादि, तेषां मुखम् - उपायः, ते हि सत्येव यज्ञार्थिनि प्रवर्त्तन्त इति । नक्षत्राणां 'मुखं' प्रधानं चन्द्रः, तस्यैव तदधिपतित्वात् । धर्माणां 'काश्यपः ' भगवानृषभदेवः 'मुखम्' उपायः कारणात्मकः, तस्यैवादितत्प्ररूपकत्वात् तथा चारण्यकम् - " ऋषभ एव भगवान् ब्रह्मा तेन भगवता ब्रह्मणा | स्वयमेव चीर्णानि ब्रह्माणि, यदा च तपसा प्राप्तः पदं यद् ब्रह्मकेवलं तदा च ब्रह्मर्षिणा प्रणीतानि कानि पुनस्तानि ब्रह्माणि ?" इत्यादि, किञ्च भवतां ब्रह्माण्डपुराणमेव सर्गादिपुराणलक्षणोपेतत्वात्सकलपुराण ज्येष्ठम्, उक्तञ्च - " नवनीतं | यथा दशश्चन्दनं मलयादिव । ब्रह्माण्डं वै पुराणेभ्यस्तथा प्राहुर्मनीषिणः ॥ १ ॥” तद्वचस्त्विदम् - " इह हि इक्ष्वाकुकुलवंशोद्भवेन नाभिसुतेन मरुदेव्या नन्दनेन महादेवेन ऋषभेण दशप्रकारो धर्मः स्वयमेव चीर्णः, केवलज्ञानलम्भाच्च महर्षिणो ये परमेष्ठिनो वीतरागाः स्नातका निर्ग्रन्था नैष्ठिकास्तेषां प्रवर्त्तित आख्यातः प्रणीतस्त्रेतायामादा" वित्यादि, काश्यपस्यैव माहात्म्यख्यापनतो धर्ममुखत्वं समर्थयितुमाह-यथा चन्द्रं ग्रहादिकाः, आदिशब्दान्नक्षत्रादिपरिग्रहः, 'पंजलीउड 'ति प्राग्वत्कृतप्राञ्जलयस्तु 'वन्दमानाः' स्तुवन्तो 'नमस्यन्तो' नमस्कुर्वन्तः 'उत्तम' प्रधानं 'मनोहारिणः ' For Private & Personal Use Only यज्ञीया ध्यय. २५ ॥ ५२५ ॥ jainelibrary.org
SR No.600068
Book TitleUttaradhyayani Part_3
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy