________________
CRECORRESS-RSSSSSSSS
अतिविनीततया प्रभुचित्ताक्षेपकारिणस्तिष्ठन्तीति सम्बन्धः, तथैनमपि भगवन्तं देवेन्द्रप्रमुखाः समस्तसुरासुरमनुजसमूहा इत्युपस्कारः, पठ्यते च-जहा चंदे गहाईए, चिटुंती पंजलीउडा । णमंसमाणा वंदंती, उद्धत्तमणहारिणो:
"त्ति, अत्र यथा 'चन्द्रे' चन्द्रविषये ग्रहादिकास्तिष्ठन्तीति (न्ति) प्राअलिपुटाः, कोऽर्थः -तदायत्यै(ताए)वासते, अन्यच्च-नमस्यन्तः प्रक्रमात्तमेव 'वन्दन्ते' स्तुवन्ति, अनेन तेषां भक्तियुक्तितामाह, 'वंदंतीउद्धत्त'त्ति सन्धिप्रयोगेण इतिशब्दान्तर्भावादितीत्येवं प्रक्रमात्काश्यपं तिष्ठन्ति प्राञ्जलिपुटास्तं च नमस्यन्तो वन्दन्ते, के इत्याह-'उद्धत्तमणहारिणो'त्ति औद्धत्यम्-अहङ्कारस्तत्प्रधानं मन औद्धत्यमनस्तद्धरणशीलाः औद्धत्यमनोहारिणः-अत्यन्तशान्तचित्तवृत्तयो, यतय इत्यर्थः, पूर्वापरनिपातस्यात्रातन्त्रत्वेन वा मनऔद्धत्यहारिणः, औद्धत्यग्रहणं चास्यैव सकलदोषमूलत्वात् , पठन्ति च-'उद्धत्तमणगारिणो'त्ति अत्र चोद्धम्-िउत्क्षेप्तं भवपङ्कमग्नमात्मानमिति गम्यते, अगारिणोगृहिणस्तविपरीता अनगारिणो-यतयः, क्रियाकारकयोजना प्राग्वत् , इह च धर्मार्थिनामेव अभ्यर्हितत्वात् काश्यपो धर्ममुखमित्यभिप्रायः। अनेन प्रश्नचतुष्टयप्रतिवचनमुक्तं, सम्प्रति पञ्चमं प्रश्नमधिकृत्याह-'अजाणग'त्ति अज्ञा न तत्त्ववेदिन इत्युक्तं भवति, के ते ?-यज्ञवादिनो ये भवतः पात्रत्वेनाभिमताः, कासामित्याह-'विजामाहणसंपय'त्ति सूत्रत्वात्सुब्ब्यत्ययः 'विद्याब्राह्मणसम्पदा' तत्र च विद्यते-ज्ञायत आभिस्तत्त्वमिति विद्या-आरण्यकब्रह्माण्डपुराणात्मिकास्ता एव ब्राह्मणसम्पदो विद्याब्राह्मणसम्पदः, तात्त्विकब्राह्मणानां हि निष्किञ्चनत्वेन विद्या एव सम्पदः, तद्वि
Jain Education inte
For Private & Personal Use Only
Hiainelibrary.org