________________
CO
मुहुत्तद्धं तु जहन्ना दसउदही होइ मुहुत्तमभहिआ । उक्कोसा होइ ठिई नायव्वा पम्हलेसाए ॥ ३८॥ मुहुत्तद्धं तु जहन्ना तित्तीसं सागरा मुहुत्तहिया । उक्कोसा होइ ठिई नायव्वा सुक्कलेसाए ॥ ३९॥ | मुहर्तस्याो मुहूर्ताः, तत्कालात्यन्तसंयोगे द्वितीया, इह च समप्रविभागस्याविवक्षितत्वादन्तर्मुहूर्त्तमित्युक्तं भवति, 'तुः' अवधारणे ततो मुहूर्ता मेव जघन्या 'तेत्तीसत्ति त्रयस्त्रिंशत् 'सागराइंति पदैकदेशेऽपि पदप्रयोगदर्शनात्सागरोपमाणि 'मुहुत्तहिय'त्ति इहोत्तरत्र च मुहूर्तशब्देन मुहूत्तैकदेश एवोक्तः, समुदायेषु हि प्रवृत्ताः शब्दा अवयवेष्वपि वर्तन्ते यथा ग्रामो दग्धः पटो दग्ध इति, ततश्चान्तर्मुहूर्त्ताधिकान्युत्कृष्टा भवति स्थितिर्ज्ञातव्या कृष्णलेश्यायाः, इह चान्तर्मुहूर्त्तस्यासङ्खयेभेदत्वादन्तर्मुहूर्त्तशब्देन पूर्वोत्तरभवसम्बन्ध्यन्तर्मुहूर्तद्वयमुक्तं द्रष्टव्यमेवमुत्तरत्रापि। मुहूर्तार्द्धस्तु जघन्या 'दशे'ति दशसङ्खयानि उदधय इत्युक्तन्यायेनोदध्युपमानि कोऽर्थः ?-सागरोपमाणि | 'पलिय'त्ति तथैव पल्योपमं तस्यासयभागस्तेनाधिकानि पल्योपमासङ्खयेयभागाधिकान्युत्कृष्टा भवति स्थितिातव्या नीललेश्यायाः, नन्वस्या धूम्रप्रभोपरितनप्रस्तट एव सम्भवः तत्र च 'अंतोमुहुत्तंमि गए"त्यादिवक्ष्यमाणन्यायतः पूर्वोत्तरभवान्तर्मुहूर्त्तद्वयपल्योपमासङ्खयेयभागाभ्यधिकदशसागरोपमपरिमाणैवासौ किं नोक्ता ?, उच्यते, उक्तैव, पल्योपमासङ्खयेयभाग एव तस्याप्यन्तमुहूर्त्तद्वयस्यान्तर्भावात् , तदसङ्खयेयभागानां चासङ्खयेयभेदत्वादिहैतावत्परिमाणस्यैवास्य विवक्षितत्वान्न विरोधः, एवमुत्तरत्रापि भावनीयम् । अक्षरसंस्कारस्तूत्तरेषु कृत एव, नवरं
N OCIENCE
Jain Education
For Private & Personal Use Only
ww.jainelibrary.org