________________
उत्तराध्य.
ESCA
लेश्याध्ययनं. ३४
बृहद्वृत्तिः
॥६५७॥
LA
अस्संखिजाणोसप्पिणीण उस्सप्पिणीण जे समया। संखाईया लोगा लेसाण हवंति ठाणाई ॥३३॥ 'असङ्खयेयानां' सङ्ख्यातीतानाम् अवसर्पन्ति-प्रतिसमयं कालप्रमाणं जन्तूनां वा शरीरायुःप्रमाणादिकमपेक्ष्य हासमनुभवन्त्यवश्यमित्यवसर्पिण्यो-दशसागरोपमकोटीकोटिपरिमाणास्तासां तथा तत्परिमाणानामेव उत्सर्पन्ति-उक्तन्यायतो वृद्धिमनुभवन्त्यवश्यमित्युत्सर्पिण्यस्तासां ये 'समयाः' परमनिरुद्धकाललक्षणाः, कियन्त इत्याहसङ्ख्यातीताः पाठान्तरतोऽसङ्खयेया वा लोका असङ्खयेयलोकप्रमितत्वेन यथा दशप्रस्थप्रमितत्वेन ब्रीहयो दशप्रस्थाः, ततोऽयमर्थः-असङ्खयेयलोकाकाशप्रदेशपरिमाणानि लेश्यानां भवन्ति स्थानानि प्रकर्षापकर्षकृतानि, अशुभानां संक्लेशरूपाणि शुभानां च विशुद्धिरूपाणि तत्परिमाणानीति शेषः, यद्वा असङ्ख्येयोत्सर्पिण्यवसर्पिणीनां ये समया गम्यमानत्वात्तावन्ति लेश्यानां भवन्ति स्थानानीति कालतोऽसङ्ख्याता लोका इति च क्षेत्रतः स्थानमान|मेवोक्तमिति सूत्रार्थः ॥ उक्तं स्थानमिदानी स्थितिमाह
मुहत्तद्धं तु जहन्ना तित्तीसा सागरा मुहत्ताहिया । उक्कोसा होइ ठिई नायव्या किण्हलेसाए ॥ ३४ ॥ मुहुत्तद्धं तु जहन्ना दसउदहिपलियमसंखभागमभहिया। उक्कोसा होइ ठिई नायब्वा नीललेसाए ॥ ३५॥ मुहुत्तद्धं तु जहन्ना तिण्णुदही पलियमसंखभागमभहिआ। उक्कोसा होइ ठिई नायव्वा काउलेसाए ॥३६॥ मुहुत्तद्धं तु जहन्ना दोण्हुदही पलियमसंखभागमभहिआ। उक्कोसा होइ ठिई नायव्वा तेउलेसाए ॥ ३७॥
॥६५७॥
Jain Education Inte
For Private & Personel Use Only
jainelibrary.org