SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ C XXXXXXX अवयं चोभयत्र पापं तद्भीरुः 'हितैषकः' मुक्तिगवेषकः, पाठान्तरतो हिताशयो वा-परोपकारचेताः, पठ्यते च'अणासवेत्ति तत्र च न विद्यन्ते आश्रवा-हिंसादयो यस्यासावनाश्रवः, एतद्योगसमायुक्तस्तेजोलेश्यां तु परिणमेत्॥ प्रतनू-अतीवाल्पो क्रोधमानौ यस्य स तथा, चः पूरणे, माया लोभश्च उक्तरूपः प्रतनुको यस्येति शेषः, अत एव प्रशान्तं-प्रकर्षणोपशमवचित्तमस्येति प्रशान्तचित्तः, दान्तः-अहितप्रवृत्तिनिवारणतो वशीकृत आत्मा येन स तथा, योगवानुपधानवानिति च प्राग्वत् , तथा 'प्रतनुवादी' खल्पभाषकश्चशब्दो भिन्नक्रमो योक्ष्यते, 'उपशान्तः' अनुद्भटतयोपशान्ताकृतिः 'जितेन्द्रियश्च' वशीकृताक्षः, एतद्योगसमायुक्तः पद्मलेश्यां तु परिणमेत् ॥ 'आतरौद्रे' उक्तरूपे ध्याने 'वर्जयित्वा' परिहत्य 'धर्मशुक्ले' प्रागुक्ते एव शुभध्याने 'साधयेत्' सतताभ्यासतो निष्पादयेत्, यः कीदृशः सन् ? इत्याह-प्रशान्तचित्तो दान्तात्मेति च प्राग्वत्, पाठान्तरतश्च ध्यायति यो विनीतविनयो दान्तः 'समितः' समितिमान् 'गुप्तश्च' निरुद्धसमस्तव्यापारः 'गुप्तिभिः' मनोगुत्यादिभिः, तृतीयार्थे सप्तमी, स च 'सरागः' ४ अक्षीणानुपशान्तकषायतया वीतरागो वा ततोऽन्य उपशान्तः पाठान्तरतः 'शुद्धयोगो वा' निर्दोषव्यापारो जिते-15 न्द्रियःप्राग्वत् , स एतद्योगसमायुक्तः शुक्ललेश्यां तु परिणमति, इह च शुभलेश्यासु केषाञ्चिद्विशेषणानां पुनरुपादानेऽपि लेश्यान्तरविषयत्वादपौनरुत्यं, पूर्वपूर्वापेक्षयोत्तरोत्तरेषां विशुद्धितः प्रकृष्टत्वं च भावनीयं, विशिष्टलेश्या वाऽपेक्ष्यैवं लक्षणाभिधानमिति न देवादिभिर्व्यभिचार आशङ्कनीय इति द्वादशसूत्रार्थः॥ सम्प्रति स्थानद्वारमाह उत्तरा. ११० For Private & Personel Use Only X ww.jainelibrary.org
SR No.600068
Book TitleUttaradhyayani Part_3
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy