SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. बृहद्वृत्तिः ॥६५६॥ %%* जन्तुरुच्यतेऽत एव शठः अलीकभाषणात् प्रमत्तः प्रकर्षेण जात्यादिमदासेवनात्, पाठान्तरतः शठश्च मत्तः, तथा रसेषु लोलुपो - लम्पटो रसलोलुपः, सातं - सुखं तद्गवेषकश्च - कथं मम सुखं स्यादिति बुद्धिमान्, 'आरम्भात्' प्राण्युपमर्दात् 'अविरतः' अनिवृत्तः क्षुद्रः साहसिको नरः, एतद्योगसमायुक्तो नीललेश्यां परिणमेत्, 'तुः' प्राग्वत्पुनरर्थो वा ४ । 'वक्रः' वचसा 'वक्रसमाचारः ' क्रियया 'निकृतिमान् ' मनसा 'अनृजुकः' कथचिहजूकर्त्तुमशक्यतया 'पलिउंचगति प्रतिकुञ्चकः - खदोपप्रच्छादकतया उपधिः - छद्म तेन चरत्यौपधिकः, सर्वत्र व्याजतः प्रवृत्तेः, | एकार्थिकानि वैतानि नानादेशजविनेयानुग्रहायोपात्तानि, मिध्यादृष्टिरनार्यश्च प्राग्वत्, 'उप्फालग'त्ति उत्प्रासकं यथा पर उत्प्रास्यते दुष्टं च रागादिदोषवद्यथा भवत्येवं वदनशील उत्प्रासकदुष्टवादी 'चः' समुच्चये 'स्तेनः ' चौरः 'च' प्राग्वत् 'अपि च इति पूरणे 'मत्सरः' परसम्पदसहनं सति वा वित्ते त्यागाभावः, तथा चाहुः शाब्दिकाः"परसम्पदामसहनं वित्तात्यागश्च मत्सरो ज्ञेयः " इति, तद्वान् मत्सरी, एतद्योगसमायुक्तः कापोतलेश्यां 'तुः' | इति पुनः परिणमेत् ॥ ' णीयावित्ति'त्ति नीचैरृत्तिः - काय मनोवाग्भिरनुत्सिक्तः 'अचपलः' चापलानुपेतः 'अमायी'' शाख्यानन्वितः 'अकुतूहल:' कुहकादिष्वकौतुकवानत एव 'विनीतविनयः' स्वभ्यस्तगुर्वाद्युचितप्रतिपत्तिः, तथा 'दान्तः' इन्द्रियदमेन योगः - खाध्यायादिव्यापारस्तद्वान्, 'उपधानवान्' विहितशास्त्रोपचारः, 'प्रियधर्मा' अभिरुचितधर्मानुष्ठानः 'दृढधर्मा' अङ्गीकृतव्रतादिनिर्वाहकः किमित्येवम् ?, यतः 'वज्जत्ति वर्ज्य प्राकृतत्वादकारलोपे Jain Education Into For Private & Personal Use Only लेश्याध्ययनं. ३४ ॥६५६॥ jainelibrary.org
SR No.600068
Book TitleUttaradhyayani Part_3
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy