________________
वाऽऽरम्भाः-सावधव्यापारास्तत्परिणतः तत्प्रवृत्त्या तदात्मतां गतः, तथा 'क्षुद्रः' सर्वस्यैवाहितैपी कार्पण्ययुक्तो वा, सहसा-अपर्यालोच्य गुणदोषान् प्रवर्तत इति साहसिकः, चौर्यादिकृदिति योऽर्थः, 'नरः' पुरुष उपलक्षणत्वाख्यादि, 'णिद्धंधस'त्ति अत्यन्तमैहिकामुष्मिकापायशङ्काविकलोऽत्यन्तं जन्तुवाधानपेक्षो वा परिणामोऽध्यवसायो वा यस्य स तथा 'णिस्संसो'त्ति 'नशंसः' निस्तूंशो जीवान् विहिंसन् मनागपि न शङ्कते, निःशंसो वा-परप्रशंसारहितः। 'अजितेन्द्रियः' अनिगृहीतेन्द्रियः, अन्ये तु पूर्वसूत्रोत्तरार्द्धस्थान इदमधीयते तचेहेति, उपसंहारमाहएते च तेऽनन्तरोक्ता योगाश्च-मनोवाक्कायव्यापारा एतद्योगाः-पञ्चाश्रवप्रमत्तत्वादयस्तैः समिति-भृशमाङित्यभिव्यात्या युक्तः-अन्वितः एतद्योगसमायुक्तः कृष्णलेश्यां 'तुः' अवधारणे कृष्णलेश्यामेव 'परिणमेत्' तद्रव्यसाचिव्येन तथाविधद्रव्यसम्पर्कात्स्फटिकवत्तदुपरञ्जनात्तद्रूपतां भजेत्, उक्तं हि-"कृष्णादिद्रव्यसाचिव्यात्परिणामो य आत्मनः । स्फटिकस्येव तत्रायं, लेश्याशब्दः प्रयुज्यते ॥१॥” एतेन पञ्चाश्रवप्रमत्तत्वादीनां भावकृष्णलेश्यायाः
सद्भावोपदर्शनादमीषां लक्षणत्वमुक्तं, यो हि यत्सद्भाव एव भवति स तस्य लक्षणं यथौष्ण्यमग्नेः, एवमुत्तरत्रापि लक्षदणत्वभावना कार्या । नीललेश्यालक्षणमाह-ईर्ष्या च परगुणासहनममर्षश्च-अत्यन्ताभिनिवेशोऽतपश्च-तपोविपर्य
योऽमीषां समाहारनिर्देशः, 'अविज'त्ति 'अविद्या' कुशास्त्ररूपा माया-वञ्चनात्मिका 'अहीकता च' असमाचारविषया निर्लज्जता 'गृद्धिः' अभिकाङ्का विषयेष्विति गम्यते 'प्रदोषश्च' प्रद्वेषो मतुब्लोपादभेदोपचाराद्वा सर्वत्र तद्वान्
SACREDEOCOMSONECHOCOCK
Jain Educat
i
onal
For Private & Personal Use Only
शाwww.jainelibrary.org