________________
Jain Education In
तत्सदृशी पदविपर्ययः प्राग्वत् नीललेश्या तु वर्णतो नीलेति तात्पर्यम् । अतसी - धान्यविशेषस्तत्पुष्पसङ्काशा, कोकिलच्छदः - तैलकण्टकः, तथा च वृद्धसम्प्रदायः - "वण्णाहिगारे जो एत्थ कोइलच्छदो सो तेलकंटतो भण्णइ "त्ति, कचित्तु पठ्यते च - 'कोइलच्छवि' त्ति, तत्र कोकिलः - अन्य पुष्टस्तस्य छविस्तत्संनिभा, पारापतः - पक्षिविशेषस्तस्य ग्रीवा - कन्धरा तन्निभा कापोतलेश्या तु वर्णतः, किञ्चित्कृष्णा किञ्चिच्च लोहितेति भावः, तथा च प्रज्ञापना- "काऊलेसा काललोहितेणवण्णेणं साहिज्जइ"त्ति । हिङलुकः-प्रतीतो धातुः- पाषाण धात्वादिस्तत्सङ्काशा, तरुण इहाभिनवोदितः आदित्यः -- सूर्यस्तत्संनिभा, शुकः - प्रसिद्धस्तस्य तुण्डं मुखं झुकतुण्डं तच प्रदीपश्च तन्निभा वा, पठन्ति च - 'सुयतुंडालत्तदीवाभा' अन्ये तु 'सुयतुंङग्गसंकासा' द्वयमपि स्पष्टं, तेजोलेश्या तु वर्णतो रक्तेति भावार्थः । हरितालो - धातुविशेषस्तस्य भेदो - द्विधाभावस्तत्सङ्काशा, भिन्नस्य हि वर्णप्रकर्षो भवतीतिभेदग्रहणं, हरिद्रेह पिण्डहरिद्रा तस्या भेदस्तत्संनिभा, सणो| धान्यविशेषोऽसनो - चीयकस्तयोः कुसुमं तन्निभा पद्मलेश्या तु वर्णतः पीतेति गर्भार्थः । शङ्खः प्रतीतोऽङ्को - मणिविशेषः कुन्दः — कुन्द कुसुमं तत्सङ्काशा, क्षीरं - दुग्धं तूलकं - तूलं पाठान्तरतः पूरो वा - क्षीरप्रवाहः, अन्ये तु 'धारि'त्ति पठन्ति तद्ब्रहणं तु भाजनस्थस्य हि तद्वशादन्यथात्वमपि संभवतीति तत्समप्रभा, रजतं - रूप्यं हारो-मुक्ताकलापस्तत्सङ्काशा शुक्ललेश्या तु वर्णतः शुक्लेति हृदयमिति सूत्रपङ्कार्थः ॥ इत्युक्तो वर्णः सम्प्रति समाह
जह कडुयतुंबरसो निंवरसो कड्डयरोहिणिरसो वा । इत्तोवि अनंतगुणो रसो उ कण्हाइ नायव्वो ॥ १० ॥
For Private & Personal Use Only
www.jainelibrary.org