________________
उत्तराध्य.
बृहद्वृत्तिः
॥६४१॥
Jain Education
'चः' समुच्चये, गीयते - शब्द्यते उच्चावचैः शब्दैः कुलालादिव द्रव्यमत आत्मेति गोत्रं तच्च अन्तरा दातृप्रतिग्राहकयो|रन्तर्भाण्डागारिकवद्विघ्नहेतुतयाऽयते - गच्छतीत्यन्तरायं तथैव च सर्वत्रासदपि कर्मेति संबध्यते, उपसंहारमाह'एवम्' अमुना प्रकारेणैतानि कर्माण्यष्ठैव 'तुः' पूरणे 'समासतः' सङ्क्षेपेण, विस्तरतस्तु यावन्तो जन्तुभेदास्तान्यपि | तावन्तीत्यनन्तान्येवेति भावः ॥ अत्र च ज्ञानदर्शनखतत्त्वोऽयमात्मेत्यन्तरङ्गत्वात्तयोरादितस्तदावरणोपादानं, समानेऽपि च तयोरन्तरङ्गत्वे ज्ञानोपयोग एव सर्वलच्धीनामवाप्तिः, यदुक्तम् - "सचाओ लद्धीओ सागारोवओगउत्तस्स "त्ति, अतो ज्ञानस्य प्राधान्यमिति तदावरणस्य प्रथमस्तदनु दर्शनावरणस्य ततः केवलिनोऽप्येकविधबन्धकस्य सातबन्धोऽस्तीति व्यापित्वाद्वेदनीयस्य ततोऽपि प्रायः संसारिणामिष्टानिष्टविषयसम्बन्धात्सुखदुःखे इष्टानिष्टता च रागद्वेपाभ्यां तद्रूपं च प्रायो मोहनीयमिति तस्य ततश्चैतत्प्रकर्षापकर्ष भावित्वादायुर्निबन्धनानां बह्वारम्भपरिग्रहत्वाल्पारम्भपरिग्रहत्वादीनां तदुद्भवं चायुष्कमिति तस्य तदुदयश्च प्रायो गत्यादिनामोदयाविनाभावीति ततो नाम्नः | ततोऽपि च नरकादिनामोदय सहभान्येव गोत्रकर्मोदय इति गोत्रस्य ततश्चच्चनीचभेदभिन्नात्प्रायो दानादिलब्धिभावाभावौ तयोश्चान्तरायक्षयोदयावन्तरङ्गहेतू इति तदनन्तरमन्तरायस्येति सूत्रद्वयार्थः ॥ इत्थं कर्मणो मूलप्रकृतीर|भिधायोत्तरप्रकृतीराह
नाणावरणं पंचविहं, सुअं आभिणियोहियं । ओहिं नाणं तईयं, मणनाणं च केवलं ॥ ४ ॥ निद्दा तहेव
For Private & Personal Use Only
कर्मप्रकृ
त्यध्य. ३३
॥६४१॥
www.jainelibrary.org