________________
Jain Education
'अष्ट' इत्यष्टसङ्ख्यानि क्रियन्ते मिथ्यात्वादिहेतुभिर्जीवेनेति कर्माणि 'वक्ष्यामि' प्रतिपादयिष्ये 'आणुपुवि 'न्ति प्राग्वत्सुच्व्यत्ययादानुपूर्व्या, इयं च पश्चानुपूर्व्यादिरपि संभवत्यत आह- 'यथाक्रमं ' क्रमानतिक्रमेण पूर्वानुपूर्व्येतियावत्, पठन्ति च 'सुणेह मे' इति प्राग्वत्, यानि कीहंशीत्याह - 'यैः' कर्मभिः 'बद्धः ' श्लिष्टः 'अय'मिति प्रतिप्राणिस्वसंवेद्यो जीवः संसारे परिवर्त्ततेऽज्ञतादिविविध पर्यायानुभवनतोऽन्यथा च अन्यथा च भवति परिभ्रमति वा पाठान्तरत इति सूत्रार्थः ॥ यथाप्रतिज्ञातमाह -
नाणसावरणिजं, दंसणावरणं तहा । वेयणिज्जं तहा मोहं, आउकम्मं तदेव य ॥ २ ॥ नामकम्मं च गोयं च अंतरायं तहेव य । एवमेयाई कम्माई, अहेव य समासओ ॥ ३ ॥ ज्ञायतेऽनेनेति ज्ञानम्-अवबोधस्तस्य आत्रियते - सदप्याच्छाद्यतेऽनेन पटेनेव विवखत्प्रकाश इत्यावरणीयं 'यल्युटो बहुल' (पा०३-३-११३) मिति वचनात्करणेऽनीयः, दृश्यतेऽनेनेति दर्शनं - सामान्यावबोधस्तदात्रियते वस्तुनि प्रतीहारेणेव नृपतिदर्शनमनेनेति दर्शनावरणं, तथा वेद्यते - सुखदुःखतयाऽनुभूयते लिह्यमानमधुलिप्तासिधारावदिति वेदनीयं, तथा मोहयति जानानमपि मद्यपानवद्विचित्तताजननेनेति मोहस्तम्, आयाति - आगच्छति स्वकृतकर्मावासनरका| दिकुगतेर्निष्क्रमितुमनसोऽप्यात्मनो निगडवत्प्रतिबन्धकतामित्यायुः तदेव कर्म आयुः कर्म तथैव च । नमयतिगत्यादिविविधभावानुभवनं प्रत्यात्मानं प्रवणयति चित्रकर इव करितुरगादिभावं प्रति रेखाकृतिमिति नामकर्म,
For Private & Personal Use Only
w.jainelibrary.org