________________
CASSACROMAXAMSANSAR
कप्पं न इच्छिज्ज सहायलिच्छू, पच्छाणुतावेण तवप्पभावं ।
एवं विकारे अमियप्पयारे, आवजई इंदियचोरवस्से ॥ १०४॥ कल्पते-खाध्यायादिक्रियासु समर्थो भवतीति कल्पो-योग्यस्तम् , अपेर्गम्यमानत्वात्कल्पमपि, किं पुनरकल्पं ?, शिष्यादीति गम्यते, 'नेच्छेत्' नाभिलपेत् 'सहायलिच्छू'त्ति बिन्दोरलाक्षणिकत्वात् 'सहाये (य) लिप्सुः' ममासौ है शरीरसंबाधनादि साहाय्यं करिष्यतीत्यभिलाषुकः सन् , तथा पश्चादिति-प्रस्तावादूतस्य तपसो वाऽङ्गीकारादुत्तरकालमनुतापः-किमेतावन्मया कष्टमङ्गीकृतमिति चित्तबाधात्मको यस्य स तथाविधः चशब्दादन्यादृशश्च सम्भूतयतिवद् भवान्तरे भोगस्पृहयालुः, तपःप्रभावं प्रक्रमान्नेच्छेद्, यथा-न शक्यमङ्गीकृतं त्यक्तुं परं यद्यस्य व्रतस्य तपसो वा फलमस्ति तत एतस्मादिहैवामपध्यादिलब्धिरस्तु, तदन्याशापेक्षया तु भवान्तरे शकचक्रिविभूत्यादि भूयादिति, किमेव निषिध्यते ? इत्याह-'एवम्' अमुना प्रकारेण 'विकारान्' दोषान् 'अमितप्रकारान्' अपरिमितभेदान् 'आपद्यते' प्राप्नोति इन्द्रियाणि चौरा इव धर्मसर्वखापहरणाद् इन्द्रियचौरास्तद्वश्यः-तदायत्तः, उक्तविशेषणविशिष्टस्य
हि कल्प्यतपःप्रभाववान्छारूपेण स्पर्शनादीन्द्रियवश्यताऽवश्यसंभाविनी ततश्चोत्तरोत्तरविशेषानभिलषतः संयम ६ प्रति चित्तविप्लुत्यवधावनादिदोषा अपि संभवन्त्येवेति, एवं च अवतोऽयमाशयः-तदनुग्रहबुद्ध्या कल्पं पुष्टाल-3
म्बने च तपःप्रभावं च वाञ्छतोऽपि न दोपः, अथवा कल्पमुक्तरूपं नेच्छेत्सहायलिप्सुं यदि कथञ्चनामी मम धर्म
54545454545454
JainEducation
For Private
Personal use only
wjainelibrary.org