SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ AARRESEASEARCAGRICARGAON कुर्वन्ति 'किञ्चिदिति शारीरं मानसं चेति सूत्रार्थः॥ ननु कश्चन कामभोगेषु सत्सु (न) वीतरागः संभवति, तत्कथमस्य दुःखाभावः, उच्यते न कामभोगा समयं उविति, न यावि भोगा विगई उविति । जे तप्पओसी य परिग्गही य, सो तेसु मोहा विगई उवेद ॥१०१॥ | 'न' नैव 'कामभोगाः' उक्तरूपाः 'समता' रागद्वेषाभावरूपाम् 'उपयान्ति' उपगच्छन्ति हेतुत्वेनेति गम्यते, तद्धेतुत्वे हि तेषां न कश्चिद्रागद्वेषवान् भवेत् , न चापि 'भोगाः' भुज्यमानतया सामान्येन शब्दादयः 'विकृति' क्रोधादिरूपाम् , इहापि हेतुत्वेनोपयन्तीत्यन्यथा न कश्चन रागद्वेषरहितः स्यात् , कोऽनयोस्तर्हि हेतुः? इत्याह-यः 'तत्प्रदोषी च' तेषु-विषयेषु प्रद्वेषवान् 'परिग्रही च' परिग्रहबुद्धिमान् , तेष्वेव रागीत्युक्तं भवति, स तेषु' विषयेषु 'मोहात्' रागद्वेषात्मकात् मोहनीयात् विकृतिमुपैति, रागद्वेषरहितस्तु समतामित्यर्थादुक्तम् , उक्तं हि पूर्व'सतोरव रागद्वेषयोरुदीरकत्वेन शब्दादयो हेतव' इति, आह-"समो य जो तेसु स वीयरागो" इत्यनेन गतार्थ|मेतत् , सत्यं, तस्यैव त्वयं प्रपञ्चः, उक्तं हि त एव विधयः सुसंगृहीता भवन्ति येषां लक्षणं प्रपञ्चश्वोच्यते' इति सूत्रार्थः ॥ किंखरूपाः पुनरसौ विकृतियाँ रागद्वेषवशादुपैतीत्याह Jain Education For Private & Personel Use Only Kiww.jainelibrary.org
SR No.600068
Book TitleUttaradhyayani Part_3
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy