SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ Xxxii शादि, तथा 'हरिणमियव मुद्धे'त्ति, मृगः सर्वोऽपि पशुरुच्यते, यदुक्तम्-"मृगशीर्षे हस्तिजातो, मृगः पशुकुरङ्गयोः" इति, हरिणस्तु कुरङ्ग एवेति तेन विशेष्यते, हरिणश्चासौ मृगश्च हरिणमृगः 'मुग्धः' अनभिज्ञः सन् 'शब्द' गौरिगीतात्मकेऽतृप्तः तदाकृष्टचित्ततया तत्रातृप्तिमान् । 'प्राणस्य' इति प्राणेन्द्रियस्य गन्ध्यते-घायत इति गन्धस्तं 'मनोशं' सुरभिम् 'अमनोज्ञम्' असुरभि, तथौषधयो-नागदमन्यादिकास्तासां गन्धस्तत्र गृद्धो-गृद्धिमानौषधिगन्धगृद्धः सन् 'सप्पविलाओ विव'त्ति इवशब्दस्य भिन्नक्रमत्वात्सर्प इव विलान्निष्क्रमन् , स ह्यत्यन्तप्रि(तत्प्रि)यतया तद्गन्धं ४ सोढुमशक्नुवन् विलान्निष्क्रामति ३। 'जिह्वायाः' 'जिह्वेन्द्रियस्य रस्यते-आखाद्यत इति रसस्तं 'मनोशं' मधुरादि 'अमनोज' कटकादि तथा बडिश-प्रान्तन्यस्तामिपो लोहकीलकस्तेन विभिन्नकायो-विदारितशरीरो बडिशवि|भिन्नकायः 'मत्स्यः' मीनो यथाऽऽमिषस्य-मांसादेर्भोगः-अभ्यवहारस्तत्र गृद्ध आमिषभोगगृद्धः ४ । काय इहस्पर्शनेद्रियं, सर्वशरीरगतत्वख्यापनार्थ चास्यैवमुक्तं. तस्य स्पृश्यत इति स्पर्शस्तं 'मनोशं' मृदुप्रभृति 'अमनोज'कर्कशादि शीतं-शीतस्पर्शवजलं-पानीयं तत्रावसन्नः-अवमग्नः शीतजलावसन्नो ग्राहैः-जलचरविशेषैहीतः-क्रोडीकृतो ग्राहगृहीतो महिष इवारण्ये, वसति हि कदाचिकेनचिदुन्मोच्येतापीत्यरण्यग्रहणम् ५। 'मनसः' चेतसो भावः-अभिप्रायः स चेह स्मृतिगोचरस्तं 'ग्रहणं' ग्राह्यं वदन्तीन्द्रियाविषयत्वात्तस्य, 'मनोज' मनोज्ञरूपादिविषयम् 'अमनोज्ञं तद्विपरीतविषयम् , एवमुत्तरग्रन्थोऽपि भावविषयरूपाद्यपेक्षया व्याख्येयः, यद्वा खनकामदशादिषु Jain Education a l For Private Personel Use Only www.jainelibrary.org
SR No.600068
Book TitleUttaradhyayani Part_3
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy