________________
प्रमादस्था
ना० ३२
उत्तराध्य. ६ इति वाक्यालङ्कारे 'दुःखं' कृच्छ्रमात्मन इति गम्यते, उपभोगार्थ हि जन्तुः क्लिश्यति-तत्र सुखं स्यादिति, यदा च
तदाऽपि दुःखं तदा कुतोऽन्यदा सुखसम्भवः ? इति भावः। इत्थं रागस्यानर्थहेतुतामभिधाय द्वेषस्यापि तामतिदेबृहद्वृत्तिः
ष्टुमाह-एवमेव' यथाऽनुरक्तस्तथैव रूपे गतः प्रदोष-द्वेषम् 'उपैति' प्राप्नोति इहैवेति शेषः 'दुःखौघपरम्पराः' उत्तरो॥६३३॥ त्तरदुःखसमूहरूपाः, तथा प्रदुष्ट-प्रकर्षेण द्विष्टं चित्तं यस्य तथाविधः, चस्य भिन्नक्रमत्वात् 'चिनोति वा' बनाति
कर्म, तत् शुभमपि संभवत्यत आह-यत् 'से' तस्य पुनर्भवति 'दुःखं' दुःखहेतुः 'विपाके' अनुभवकाले इह परत्र चेति भावः, पुनर्ग्रहणमैहिकदुःखापेक्षम् , अशुभकर्मोपचयश्च हिंसाद्याश्रवाविनाभावीति तद्धेतुत्वमनेनाक्षिप्यते । इत्थं रागद्वेषयोरुद्धरणाहतां ख्यापयितुं तदनुद्धरणे दोषमभिधाय तदुद्धरणे गुणमाह-रूपे विरक्त उपलक्षणत्वादद्विष्टश्च 'मनुजः' मनुष्यः 'विशोकः' शोकरहितः संस्तन्निबन्धनयो रागद्वेषयोरभावात् 'एतेन' अनन्तरमुपदर्शितेन 'दुक्खोहपरंपरेणं ति दुःखानाम्-असातानामोघाः-सङ्घातास्तेषां परम्परा-सन्ततिःखौघपरम्परा तया 'न लिप्यते' न|
स्पृश्यते भवमध्येऽपि 'सन्' भवन् , संसारवलंपीत्यर्थः, दृष्टान्तमाह-जलेनेव वाशब्दस्योपमार्थत्वात् 'पुष्करिणीपदिलासं' पद्मिनीपत्रं जलमध्येऽपि सदिति शेषः । १३ ॥ ३४ ॥ इत्थं चक्षुराश्रित्य त्रयोदश सूत्राणि व्याख्यातानि,
एतदमुसारेणैव शेषेन्द्रियाणां मनसश्च स्वविषयप्रवृत्तौ रागद्वेषानुद्धरणदोषाभिधायकानि त्रयोदश सूत्राणि व्याख्येयानि, नवरं 'श्रोत्रस्येति श्रोत्रेन्द्रियस्य शब्द्यत इति शब्दो-ध्वनिस्तं 'मनोज्ञं' काकलीगीतादि 'अमनोज्ञं' खरकर्क
-
-
६३३॥
-
Jain Education in
For Private & Personal use only
w.jainelibrary.org