________________
सम्यगूव्यापारणं रक्षणसन्नियोगं तस्मिन् 'वयेत्ति 'व्यये विनाशे 'वियोगे' विरहे सतोऽप्यनेककारणजनिते, सर्वत्र रूपस्येतिप्रक्रमः, व सुखं ?, न क्वचित्, किन्तु सर्वत्र दुःखमेवेति भावः, 'से' इति तस्य जन्तोः, इयमत्र भावना-रूपमूर्छितो हि रूपवत्करितुरङ्गमकलत्रादीनामुत्पादनरक्षणार्थ तेषु तेष क्लेशहेतुषूपायेषु जन्तुः प्रवर्तते, तथा नियोज्यापि तथाविधप्रयोजनोत्पत्तौ रूपवत्कलत्रादि तदपायशङ्कया पुनः पुनः परितप्यत एवेति सिद्ध
मेवास्योत्पादनरक्षणसंनियोगेषु दुःखम् , एवं व्ययवियोगयोरपि भावनीयम् , अन्ये तु पठन्ति-रूवाणुरागेण परिजग्गहेणं'ति, तत्र रूपानुरागेण हेतुना यः परिग्रहस्तेन, शेषं प्राग्वत्, स्यादेतत्-मा भूदुत्पादनादिषु रूपस्य सुखं,
सम्भोगकाले तु भविष्यतीत्याशङ्कयाह-'सम्भोगकाले च' उपभोगप्रस्तावे च 'अतित्तलाभे'त्ति तर्पणं तृप्तं तृप्तिरितियावत्तस्य लाभः-प्राप्तिस्तृप्तलाभो न तथाऽतृप्तलाभः, किमुक्तं भवति ?-बहुधाऽपि रूपदर्शने रागिणां न तृप्तिरस्ति, यतोऽन्यैरप्युक्तम्-“न जातु कामः कामानामुपभोगेन शाम्यति । हविषा कृष्णवर्मेव, भूय एवाभिवर्द्धते ॥१॥” तथा “यथाऽभ्यासं विवर्द्धन्ते विषयाः कौशलानि चेन्द्रियाणा"मिति, तस्मिन् सति व सुखमिति सम्बन्धः, उत्तरोत्तरेच्छया हि परितप्यत एव जन्तुरिति, पठन्ति च-'अतित्तिलाभे'त्ति तृप्तिप्राप्त्यभावे । आह-एवं परिग्रहाद् दुःखमनुभवतस्तद्भीरुतया ततो निवृत्तिर्दोषान्तरानारम्भणं वा किमस्य संभवतीत्याशङ्कयाह-रूपेऽतृप्तश्च परिग्रहे चतद्विषयमूर्छात्मके सक्तः-सामान्येनैवासक्तिमान् उपसक्तश्च-गाढमासक्तस्ततः सक्तश्च पूर्वमुपसक्तश्च पश्चात् सक्तो
Jain Education
For Private & Personal Use Only
www.jainelibrary.org.