SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. बृहद्वृत्तिः ॥६३९॥ Jain Education मागधदेशी भाषया 'अताशे' अन्यादृशे, तथा च तलक्षणं - 'रशयोर्लसौ मागधिकाया' मिति, 'से' इति स करोति 'प्रदोष' द्वेषं सुन्दरीनन्द इव सुरसुन्दरीरागतः सुन्दर्या, तथा च दुःखस्य 'संपीडनं' सङ्घातं यद्वा समिति - भृशं पीडा - दुःखकृताबाधा संपीडा तामुपैति 'बालः' अज्ञः उक्तमेवार्थे व्यतिरेकमुखेनाह - न लिप्यत इव लिप्यते, श्लिष्यत इत्यर्थः, 'तेन' द्वेषकृतदुःखेन मुनिः 'विरागः' रागविरहितः, तस्यैव तन्मूलत्वादिति भावः ॥ | सम्प्रति रागस्यैव पापकर्मोपचयलक्षणमहाऽनर्थहेतुतां ख्यापयितुं हिंसाद्याश्रवनिमित्ततां पुनरिह च तद्द्वारेण | दुःखजनकत्वं च सूत्रपङ्केनाह - रूपं प्रस्तावान्मनोज्ञमनुगच्छति रूपानुगा सा चासावाशा च रूपानुगाशा, रूपविषयोऽभिलाष इति योऽर्थः, तदनुगतश्च जीवः, पठन्ति च - 'रुवाणुवायाणुगए य जीवेत्ति तत्र रूपाणां - मनो| ज्ञानामुपायैः - उपार्जन हेतुभिरनुगतो-युक्त उपायानुगतः स च प्राणी जीवान् 'चराचरान्' त्रसस्थावरान् 'हिनस्ति' | विनाशयति 'अनेकरूपान्' जात्यादिभेदतोऽनेकविधान्, कांश्चित्तु 'चित्रैः' अनेकप्रकारैः स्वकायपरकायशस्त्रादि| भिरुपायैरिति गम्यते सुध्यत्ययाद् यथासम्भवं चित्तेषु वा तानिति-चराचरजीवान् परीति- सर्वतस्तापयति-दुःख| यति परितापयति बाल इव बालः - विवेकविकलतयाऽपरांश्च पीडयति एकदेशदुः खोत्पादनेनात्मार्थं गुरुः- खप्रयोजननिष्ठः 'क्लिष्टः' रागबाधितः ॥ अन्यच-रूपानुपातो- रूपविषयोऽनुपातः अनुगमनमनुराग इतियावत् तस्मिंश्च सति 'परिग्रहेण' मूर्द्धात्मकेन हेतुना 'उत्पादने' उपार्जने रक्षणं च - अपायविनिवारणं सन्नियोगश्च - खपरप्रयोजनेषु For Private & Personal Use Only प्रमादस्था ना० ३२ ॥६३१॥ v.jainelibrary.org
SR No.600068
Book TitleUttaradhyayani Part_3
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy