________________
उत्तराध्य.
बृहद्वृत्तिः
॥६३२॥
Jain Education In
पसक्तः 'नोपैति' नोपगच्छति 'तुष्टिं' परितोषं सन्तोषमितियावत्, तथा चातुष्टिरेव दोषोऽतुष्टिदोषस्तेन दुःखी - यदि ममेदमिदं च रूपवद्वस्तु स्यादित्याकाङ्क्षातोऽतिशयदुःखवान् स किं कुरुत इत्याह- 'परस्य' अन्यस्य सम्बन्धि रूपवद्वस्त्विति गम्यते 'लोभाविल:' लोभकलुषः, यद्वा परेषां स्वं परखं प्रक्रमाद् यद्रूपवद्वस्तु तस्मिन् लोभो - गाये | तेनाविलः परखलोभाविलः 'आदत्ते' गृह्णाति 'अदत्तम्' अनिसृष्टं परकीयमेव रूपवद्वस्त्विति गम्यते, अनेन रागस्यातिदुष्टतां ख्यापयितुं परिग्रहादोपदर्शनेऽपि विशेषतस्तत्रासक्तिर्दोषान्तरारम्भणं चाभिहितं ॥ तत्किमस्यैतावानेव दोप उतान्योऽपि ? इत्याशङ्कयोक्तदोषानुवादेन दोषान्तरमप्याह - ' तृष्णाभिभूतस्य' लोभाभिभूतस्य तत एवादत्तं हरति - गृह्णातीत्येवंशीलोऽदत्तहारी तस्य, तथा रूपे - रूपविषयो यः परिग्रहस्तस्मिन्निति योगः, चस्य भिन्नक्रमत्वादतृप्तस्य च तत्रा सन्तुष्टस्य मायाप्रधानं मोसंति- मृषाऽलीकभाषणं मायामृषा 'वर्द्धते' वृद्धिं याति कुतः पुनरिदमित्थमित्याह- 'लोभदोषात्' लोभापराधात्, लुब्धो हि परखमादत्ते आदाय च तद्गोपनपरो मायामृषा वक्ति, तदनेन | लोभ एव सर्वाश्रवाणामपि मुख्यो हेतुरित्युक्तं, तथा रागप्रक्रमेऽपि सर्वत्र लोभाभिधानं रागेऽपि लोभांशस्यैवातिदुष्टतावेदनार्थ, तत्रापि को दोषः ? इत्याह- 'तत्रापि' मृषाभाषणेऽपि 'दुःखात्' असातात् 'न विमुच्यते' न विमुक्तिमाप्नोति सः, किन्तु ?, दुःखभाजनमेव भवतीति भावार्थः । दुःखाविमुक्तिमेव भावयति - 'मोसस्स' त्ति मृषा, कोऽर्थः ? - अनृतभाषणस्य पश्चाच्च पुरस्ताच 'प्रयोगकाले च' तद्भाषणप्रस्तावे च दुःखी सन् तत्र पश्चादिदमिदं च न मया
all
For Private & Personal Use Only
प्रमादस्था
ना० ३२
||६३२॥
jainelibrary.org