SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. प्रमादस्थ बृहद्वृत्तिः ना०३२ ॥६२६॥ इव ?-'पराजितः' पराभूतः 'व्याधिरिव' कुष्ठादिः 'औषधैः' गडूच्यादिभिर्देहमिति गम्यते, अनेनापि विविक्तशग्यासनादीनां काका विधेयत्वमुक्तम् , इदानीं तु विविक्तशयनासने यत्नाधानाय विपर्यये दोषमाह-यथा बिडालामार्जारास्तेषामावसथः-आश्रयो बिडालावसथस्तस्य 'मूले समीपेन मूषकाणां वसतिः 'प्रशस्ता' शोभना, अवश्यं तत्र तदपायसम्भवात् , एवमेव स्त्रीणां-युवतीनां पण्डकाधुपलक्षणमेतत् निलयो-निवासः स्त्रीनिलयस्तस्य 'मध्ये' अन्तन ब्रह्मचारिणः 'क्षमः' युक्तः, कोऽसौ?-निवासः-वसतिः, तत्र ब्रह्मचर्यबाधासम्भवादिति भावः । विविक्तशय्यावस्थितावपि कदाचित्स्त्रीसंपाते यत्कर्त्तव्यं तदाह-'न' नैव रूपं-सुसंस्थानता लावण्यं-नयनंमनसामावादको गुणो विलासाविशिष्टनेपथ्यरचनादयो हासः-कपोलविकासादिरेषां समाहारे रूपलावण्यविलासहासं न जल्पितं-मन्मनोलापादि 'इंगिय'त्ति बिन्दुलोपाद् 'इङ्गितम्' अङ्गभङ्गादि वीक्षितं' कटाक्षवीक्षितादि 'वा' समुच्चये स्त्रीणां सम्बन्धि 'चित्तंसि'त्ति 'चित्ते' मनसि 'निवेश्य' अहो ! सुन्दरमिदं चेति विकल्पतः स्थापयित्वा 'द्रष्टुं' इन्द्रियविषयतां नेतुं 'व्यवस्येत्' अध्यवस्येत् श्रमणस्तपखीति प्राग्वत् , चित्ते निवेश्येत्यनेन च रागाद्यभिसन्धि विनतद्दर्शनमपि न दोषायेति ख्याप्यते, उक्तं हि-'न सकं रूवमटुं' इत्यादि, निवेश्येति च समानकालत्वेऽपि क्त्वाप्रत्ययः अक्षिणी निमील्य हसतीत्याहै दिवत् । किमित्येवमुपदिश्यते इत्याह-'अदर्शनम्' इन्द्रियाविषयीकरणं 'चः' समुचये 'एवः' अवधारणेऽदर्शनमेव च "अप्रार्थनं च' अनभिलषणम् 'अचिन्तनं चैव' रूपाद्यपरिभावनम् 'अकीर्तनं च' असंशब्दनं, तच नामतो गुणतो ॥६२६॥ Jain Education eona For Private & Personel Use Only T ww.jainelibrary.org
SR No.600068
Book TitleUttaradhyayani Part_3
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy