SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ Gफलतातुल्यं च दृप्तत्वं दीप्तत्वं वा पक्षिसदृशाश्च कामा इति ॥ अनेन रसप्रकामभोजने दोष उक्तः, सम्प्रति सामान्येनैव, प्रकामभोजने दोषमाह-यथा 'दवाग्निः' दावानलः प्रचुरेन्धने 'वने' अरण्ये, एतदुपादानं च वसति (तिमति) कश्चिद्विध्यापकोऽपि स्यादिति, 'समारुतः' सवायुः 'नोपसम'न्ति न 'उपशमं विध्यापनम् 'उपैति' प्रामोति, 'एवम्' इति दवाग्निवन्नोपशमभाग् भवति 'इंदियग्गि'त्ति इन्द्रियशब्देनेन्द्रियजनितो राग एवोक्तः, तस्यैवानर्थहेतुत्वेनेह चिन्त्यमानत्वात् ,सोऽग्निरिव धर्मवनदाहकत्वाद् इन्द्रियाग्निः, सोऽपि 'प्रकामभोजिनः' अतिमात्राहारस्य, प्रकामभोजनस्यैव पवनप्रायत्वेनातीय तदुदीरकत्वाद्, अतश्चायं न ब्रह्मचारिणः 'हिताय' हितनिमित्तं, ब्रह्मचर्यदिविघातकत्वेन कस्यचिद् अतिसुस्थितस्यापि, तदनेन प्रकामभोजनस्य काका परिहार्यत्वमुक्तम् ॥ इत्थं रागमुद्धा कामेन यत्परिहर्त्तव्यं तदभिधाय यदतियत्नेन कर्त्तव्यं तदाह-विविक्ता-ख्यादिविकला शय्या-वसतिस्तस्यामासनम्-अवस्थानं तेन यत्रिता-नियन्त्रिता विविक्तशय्यासनयत्रितास्तेषाम् 'अवमाशनानाम् न्यूनभोजनानां, पठन्ति च-'ओमासणाए'त्ति अवम-न्यूनमशनम्-आहारो येषां तेऽमी अवमाशनास्तद्भावोऽवमाशनता-अवमौदर्यरूपा तया दमितानि-वशीकृतानि इन्द्रियाणि यैस्ते तथा तेषां दमितेन्द्रियाणां, पठ्यते च-'ओमासणाईदमिइंदियाणं'ति, अवममशनं यत्र तपसि तदवमाशनं तदादिभिस्तपोभेदैर्दमितानीन्द्रियाणि यैस्ते तथा तेषां, 'न' नैव रागः शत्रुरिवाभिभवहेतुतया रागशत्रुः 'धर्षयति' पराभवति, किं तत् ?-चित्तं, किन्तु स एवेत्थं पराधृष्यत इति भावः, क CREAUCROSXXX Jain Education Lonal For Private Personal use only . www.jainelibrary.org
SR No.600068
Book TitleUttaradhyayani Part_3
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy