SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. बृहद्वृत्तिः ॥६२५॥ Jain Education रसेत्यादि सूत्रैकादशकम् । 'रसाः ' क्षीरादिविकृतयः 'प्रकामम्' अत्यर्थ 'न निषेवितव्याः ' नोपभोक्तव्याः, प्रकामग्रहणं तु वातादिक्षोभनिवारणाय रसा अपि निषेवितव्या एव, निष्कारणनिषेवणस्य तु निषेध इति ख्यापनार्थम्, उक्तं च“अच्चाहारो न सहे अतिनिद्धेण विसया उदिज्जंति । जायामायाहारो तंपि पगामं ण भुंजामि ॥ १ ॥" किमित्येवमुपदिश्यते इत्याह- 'प्रायः ' बाहुल्येन रसा निषेव्यमाणा इति गम्यते, दृप्तिः- धातूद्रेकस्तत्करणशीला दृप्तिकरा इसकरा वा पाठान्तरतः इह च भावे क्तप्रत्यय इति इस दर्प उच्यते, दृश्यन्त एव हि कुर्वन्तो हसत्वममी प्राणिनामिति, यदिवा दीसं दीपनं मोहानलज्वलनमित्यर्थस्तत्करणशीला दीप्तकराः, केषां ? - नराणामुपलक्षणत्वात्ख्यादीनां च, उदीरयन्ति हि ते उपभुक्तास्तेषां मोहानलमिति, उक्तं हि - "विगेई परिणइधम्मो मोहो जमुदिजए उदिष्णे य । सुहुवि चित्तजयपरो कहं अकजेण वट्टहिई ? ॥ १ ॥ " एवं च को दोष इत्याह-हसं यदिवा दीप्तं नरमिति प्रक्रमः 'चः' पुनरर्थे जातिविवक्षया च बहुवचनप्रक्रमेऽप्येकवचनं, 'कामाः' विषयाः 'समभिद्रवन्ति' अभिभवन्ति, | तथाविधस्य रुयाद्यभिलषणीयत्वात्सुखाभिभवनीयत्वाच्चेति भावः, कमिव क इवेत्याह- 'दुमं' वृक्षं 'यथे' त्यौपम्ये, 'खादुफलं' मधुरफलान्वितं 'च' इति भिन्नक्रमः, ततश्च पक्खि'त्ति पक्षिण इव, इह च द्रुमोपमः पुरुषादिः खादु- ३ ॥६२५॥ १ अत्याहारं न भुञ्जामि अतिस्निग्धेन विषया उदीर्यन्ते । यात्रामात्राहारस्तमपि प्रकामं न भुञ्जामि ॥ १ ॥ २ विकृतिः परिणतिधर्मां मोहो यदुदीर्यते उदीर्णे च । सुष्ठु पि चित्तजयपरः कथमकार्थे न यर्त्स्यति ? || २ || For Private & Personal Use Only प्रमादस्था ना० ३२ www.jainelibrary.org
SR No.600068
Book TitleUttaradhyayani Part_3
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy