SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ उत्तरा १०५ वा स्त्रीजनस्यार्यध्यानं - धर्म्यादि तस्य योग्यं तद्धेतुत्वेनोचितमार्यध्यानयोग्यं 'हितं' पथ्यं 'सदा' सर्वकालं ब्रह्मत्रते पाठान्तरतो ब्रह्मचर्ये 'रतानाम्' आसक्तानां ततः स्थितमेतत् - स्त्रीणां रूपादि मनसि निवेश्य द्रष्टुं व्यवस्येत् ॥ ननु 'विकारहेतौ सति विक्रियन्ते, येषां न चेतांसि त एव धीराः' तत्किमिति रागमुद्धर्तुकामेन विविक्तशयनासनतावि |धेयेत्युच्यते ? इत्याशङ्कयाह- 'कामं तु'त्ति अनुमतमेवैतद् यदुत 'देवी हिवि'त्ति 'देवीभिरपि' अप्सरोभिरप्यास्तां मानुषीभिरित्यपिशब्दार्थः 'भूषिताभिः' अलङ्कृताभिः 'न' नैव 'चाइय'त्ति शकिताः 'क्षोभयितुं' चालयितुं संयमादिति गम्यते 'तिसृभिः' मनोगुत्यादिगुप्तिभिर्गुप्ताः अर्थान्मुनयः ' तथाऽपि' यदप्येवंविधाथालयितुं न शक्यन्ते तदप्येकान्तहितमेतदिति ज्ञात्वा, किमुक्तं भवति ? - संभवन्ति हि केचिदभ्यस्तयोगिनोऽपि ये तत्सङ्गतः क्षुभ्यन्ति येऽपि न क्षुभ्यन्ति | तेऽपि स्त्रीसंसक्तवसतिवासे “साहु तवो वणवासो" इत्याद्यवर्णादिदोषभाजो भवेयुरिति परिभाव्य 'विविक्तवासो' | विविक्तशय्यासनात्मको मुनीनां प्रशस्त इत्यन्तर्भावितण्यर्थतया 'प्रशंसितः' गणधरादिभिः श्लाघित इत्यर्थः, अतः स एवाश्रयणीय इति भावः ॥ एतत्समर्थनार्थमेव स्त्रीणां दुरतिक्रमत्वमाह-'मोक्षाभिकाङ्क्षिणोऽपि' मुक्तत्यभिलाषिणोऽपि मानवस्य संसारात् चतुर्गतिरूपाद्भयनशीलो भीरुः संसारभीरुः, अपेरिहापि सम्बन्धात्तस्यापि - तथास्थितस्यापि 'धर्मे' श्रुतधर्मादौ 'न' नैव 'एतादृशम्' ईदृशं दुस्तरं - दुरतिक्रमम् 'अस्ति' विद्यते 'लोके' जगति यथा 'स्त्रियः युवतयः 'बालमनोहराः' निर्विवेकचित्ताक्षेपिण्यो दुस्तराः, दुस्तरत्वे च बालमनोहरत्वं हेतुः, अतश्चातिदुस्तरत्वादासां परि For Private & Personal Use Only www.jainelibrary.org
SR No.600068
Book TitleUttaradhyayani Part_3
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy