________________
| रहितः, स च बाह्यग्रन्धरहितोऽपि स्यादत आह-सर्वो-बाह्य आन्तरश्च यो ग्रन्थस्तेनोन्मुक्तः सर्वग्रन्थोन्मुक्तः,वक्ष्यमाण
श्रमणविशेषणान्येतानि, 'व्युत्सृज्य' त्यक्त्वा 'असारान्' परमार्थालोचनायामप्रधानान् ‘केशैः' शिरोरुहैः 'सम' सह |परिक्लेशयन्तीति परिक्लेशाः-प्रस्तावात्पुत्रकलत्रादिसम्बन्धास्तान्। घटनं-संयमयोगविषयं चेष्टनं यतनं-तत्रैवोपयुक्तत्वं ताभ्यां प्रधानः-प्रवरो घटनयतनप्रधानः 'जातः' भूतः 'श्रमणः' तपस्वी शमितानि पापानि-मिथ्यात्वादिपापप्र. कृतिरूपाणि येनासौ शमितपापः । भावार्थस्त्वासां सम्प्रदायादवसेयः, स चायम्-वाणारसीए नयरीए दो विप्पभायरो यमला आसी जयघोसविजयघोसा, अन्नया जयघोसो पहाइउं गओ गंगं, तत्थ पेच्छइ सप्पेण मंडूकं गसिजंतं, सप्पोवि मजारेण उच्छित्तो, मजारो सप्पं अक्कमिडं ठिओ, तथावि सप्पो मंडूकं चिंचियंत खायति, मजारोवि सप्पं चडप्फडंतं खायति, अन्नमन्नं घायं पासित्ता पडिबुद्धो गंगमुत्तरिऊण साहुसगासे समणो जातो त्ति । इति गाथाऽष्टकार्थः । इत्यभिहितं किञ्चिदुपोद्घातनिर्युक्त्यनुगमान्तर्गतं, सम्प्रति सूत्रस्पर्शिकनियुक्त्यनुगमावसरः, स च सूत्रे सति भवतीति सूत्रानुगमे सूत्रमुच्चारणीयं, तचेदम्
१ वाराणस्यां नगर्या द्वौ विप्रभ्रातरौ यमलावास्तां जयघोषविजयघोषौ, अन्यदा जयघोषः स्नातुं गतो गङ्गा, तत्र प्रेक्षते सर्पण | | मण्डूकं अस्यमानं, सोऽपि मार्जारेणोरिक्षप्तः, मार्जारः सर्पमाक्रम्य स्थितः, तथापि सो मण्डूकं चिंचिंकुर्वन्तं खादति, मार्जारोऽपि सर्प कम्पमानं खादति, अन्योऽन्यघातं दृष्ट्वा प्रतिबुद्धो गङ्गामुत्तीर्य साधुसकाशे श्रमणो जात इति ॥
Jan Education
For Private
Personel Use Only
wjainelibrary.org