SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ ROCOCCADEMish नन्तानुवन्धिकपायरूपयोः सत्तायामवश्यम्भावी मिथ्यात्वोदयः, अत एवोपशान्तकषायवीतरागस्यापि मिथ्यात्व गमनं, तत्र च सिद्ध एवाज्ञानरूपो मोहः, एतेन च परस्परं हेतुहेतुमद्भावाभिधानेन यथा रागादीनां सम्भवदस्तथोक्तं, सम्प्रति यथैतेषां दुःखहेतुत्वं तथा वक्तुमाह-'रागश्च' मायालोभात्मकः 'द्वेषोऽपिच' क्रोधमानात्मकः कर्म ज्ञानावरणादि तस्य बीज-कारणं कर्मबीजं, कर्म चस्य भिन्नक्रमत्वान्मोहात्प्रभवतीति मोहप्रभवं च-मोहकारणं वदन्ति । 'चः' सर्वत्र समुच्चये 'कर्मच' इति कर्म पुनर्जातयश्च मरणानि च जातिमरणं तस्य 'मूलं' कारणं 'दुःखं' संसारमसातपक्षे तु दुःखयतीति दुःखं, कोऽर्थः ?-दुःखहेतुं, चस्य पुनरर्थस्य भिन्नक्रमत्वात् जातिमरणं पुनर्वदन्ति, तीर्थकरादय इति गम्यते, जातिमरणस्यैवातिशयदुःखोत्पादकत्वात् , उक्तं हि-"मरमाणस्स जं दुक्खं, जायमाणस्स जंतुणो । तेण दुक्खेण संतत्तो, न सरति जातिमप्पणो ॥१॥” यतश्चैवमतः किं स्थितमित्याह-'दुःखम्' उक्तरूपं हतमिव हतं, केनेत्याह-यस्य 'न भवति' न विद्यते, कोऽसौ ?-मोहः, अस्यैव तन्मूलकारणत्वात् , ततो हि कर्म कर्मणश्च दुःखमित्यनन्तरमेवोक्तं, हतमिव हतमिति च व्याख्यातं तत्क्षयेऽपि नारकादिगतौ खतत्त्वभावनापरस्यापि कियतोऽपि दुःखस्य सम्भवात् , यदि दुःखहननं मोहाभावाद् असावपि कुत इत्याह-मोहो हतो यस्य न भवति तृष्णा, ४ कोऽर्थः ?-तृष्णाया अभावान्मोहाभावः, तदायतनत्वेन तथा अभिधानात् , तृष्णाया अपि कुतो हननमित्याह १ म्रियमाणस्य यदुःखं जायमानस्य जन्तोः । तेन दुःखेन संतप्तो न स्मरति जातिमात्मनः ॥ १ ॥२ ख्यापक्षद्वयेऽपि For Private Personel Use Only
SR No.600068
Book TitleUttaradhyayani Part_3
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy