________________
वाराध्य.
बृहदूतिः
॥६२३॥
Jain Educat
न्येन दुःखप्रमोक्षहेतुत्वख्यापनार्थं यथा तेषां सम्भवो यथा दुःखहेतुत्वं यथा च दुःखस्य प्रसङ्गतस्तेषां चाभावस्तथा वि (ऽभिधातुमाह
जहा य अंडप्पभवा बलागा, अंडं बलागप्पभवं जहा य । एमेव मोहाययणं खु तण्हं, मोहं च तण्हाययणं वयंति ॥ ६ ॥ रागो य दोसोविय कम्मबीयं, कम्मं च मोहप्पभवं वयंति । कम्मं च जाईमरणस्स मूलं, दुक्खं च जाईमरणं वयंति ॥ ७ ॥ दुक्खं हयं जस्स न होइ मोहो, मोहो हओ जस्स न होइ तन्हा । तण्हा हया जस्स न होइ लोभो, लोभो हओ जस्स न किंचाई ॥ ८ ॥
'यथा चे 'ति येनैव प्रकारेणाण्डं प्रतीतं ततः प्रभव - उत्पत्तिर्यस्याः साऽण्डप्रभवा 'बलाका' पक्षिविशेषः, अण्डं बलाकातः प्रभवतीति बलाकाप्रभवं यथा च, किमुक्तं भवति ? - यथाऽनयोः परस्परमुत्पत्तिस्थानता 'एवमेव' अनेनैव प्रकारेण मोहयति-मूढतां नयत्यात्मानमिति मोह :- अज्ञानं तच्चेह मिथ्यात्वदोषदुष्टं ज्ञानमेव गृह्यते, उक्तं हि - "जह दुधयणमवयण" मित्यादि, आयतनम् - उत्पत्तिस्थानं यस्याः सा मोहायतना तां 'खुः' अवधारणे ततो मोहायतनामेव 'तण्ह'न्ति तृष्णां वदन्तीति सम्बन्धः, यथोक्तमोहाभावे ह्यवश्यम्भावी तृष्णाक्षय इति, मोहं च तृष्णाऽऽयतनं यस्यासौ तृष्णायतनस्तं वदन्ति, तृष्णा हि सति मूर्च्छा, सा चात्यन्तदुस्त्यजेति रागप्रधाना ततस्तया राग उपलक्ष्यते सति च तत्र द्वेषोऽपि संभवतीति सोऽप्यनयैवाक्षिप्यते ततस्तृष्णाग्रहणेन रागद्वेषावुक्तौ, एतयोश्था
ational
For Private & Personal Use Only
प्रमादस्था
ना० ३२
॥६२३॥
www.jainelibrary.org