________________
उत्तराध्य.
२२
बृहद्धृत्तिः ॥६२०॥
MAGNESCORCHESTROGRAM
नादि 'आदिकरस्य' ऋषभनानो भगवत आचरतो यः किलेति परोक्षाप्सवादसूचकः 'प्रमादकालः' यत्र प्रमादोऽ-1 प्रमादस्थाभूत् यत्तदोरभिसम्बन्धात्सोऽहोरात्रं 'तुः' अवधारणे ततोऽहोरात्रमेव, किमयमेकावस्थाभाविनःप्रमादस्य काल उतान्यथेत्याशदयाह-सङ्कलितः, किमुक्तं भवति ?-अप्रमादगुणस्थानस्यान्तमौहूर्तिकत्वेनानेकशोऽपि प्रमादप्राप्तौ तदवस्थितिविषयभूतस्यान्तर्मुहूर्तस्याङ्खयेयभेदत्वात्तेषामतिसूक्ष्मतया सर्वकालसङ्कलनायामप्यहोरात्रमेवाभूत् ॥ तथा द्वादश वर्षाण्यधिकानि तपश्चरतो वर्द्धमानस्य यः किल प्रमादकालः प्राग्वत्सोऽन्तर्मुहूर्तमेव सङ्कलितः, इहाप्यन्तर्मुहूर्तानामसङ्खयेयभेदत्वात्प्रमादस्थितिविषयान्तर्मुहूर्तानां सूक्ष्मत्वं, सङ्कलनान्तर्मुहूर्तस्य च बृहत्तरत्वमिति भावनीयम् , अन्ये त्वेतदनुपपत्तिभीत्या निद्राप्रमाद एवायं विवक्षित इति व्याचक्षत इति गाथाद्वयार्थः ॥ इत्थमुत्तमनिदर्शनाभ्यामप्रमादानुष्ठाने दायमापाद्य विपर्यये दोषदर्शनद्वारेण पुनस्तदेवापादयितुमिदमाहजेसिं तु पमाएणं गच्छइ कालो निरत्थओ धम्मे। ते संसारमणंतं हिंडंति पमायदोसेणं ॥ ५२५ ॥
येषां प्राणिनां 'तुः' पूरणे प्रमादेनोपलक्षितानां 'गच्छति' ब्रजति कालः 'निरर्थकः' निष्प्रयोजनः, क?- ६२०॥ "धर्मे' धर्मविषये धर्मप्रयोजनरहित इत्यर्थः, प्रमादतो हि नश्यन्त्येव धर्मप्रयोजनानि, ते किमित्याह-संसारम् 'अनन्तम्' अपर्यवसितं 'हिण्डन्ते' भ्राम्यन्ति 'प्रमाददोषेण हेतुनेति गाथार्थः ॥ यतश्चैवं ततः किं कर्तव्यमित्याह
Jain Education in
For Private & Personel Use Only
Rijainelibrary.org