________________
Jain Education
द्रव्यतः कञ्चुकादिगतं भावस्थानम् — औदयिकादिको भावस्तिष्ठन्त्यत्र जन्तव इतिकृत्वेति गाथात्रयार्थः ॥ सम्प्रति येनात्र प्रकृतं तदुपदर्शयन्नुपदेश सर्वखमाह
| भावप्पमाय पगयं संखाजुत्ते अ भावठाणंमि । चइऊणं च (ण इइ) पमायं जइयवं अप्पमामि ॥ ५२२ ॥
भावप्रमादेन उक्तरूपेण प्रकृतम् - अधिकारः, तथा 'संख'त्ति सङ्ख्यास्थानं तद्युक्तेन, चस्य भिन्नक्रमत्वाद्भावस्थानेन च, कोऽर्थः १ - सङ्ख्यास्थानेन च, सर्वत्र सुब्व्यत्ययेन सप्तमी, अत्र हि गुरुवृद्धसेवाद्यभिधानतः प्रकामभोजनादिनिषेधतश्च भावप्रमादा निद्रादयोऽर्थात्परिहर्त्तव्यत्वेनोच्यन्ते, ते चैकादिसङ्ख्यायोगिन औदयिक भावस्वरूपाश्चेति भावः, ' त्यक्त्वा' विहाय 'इती' त्येवंप्रकारं प्रमादं, किमित्याह - 'यतितव्यं' यत्नो विधेयः, क ? - 'अप्रमादे' प्रमादप्रतियो - | गिनि धर्म प्रत्युद्यम इति गाथार्थः ॥ अस्यैवार्थस्य दृढीकरणार्थमुत्तमनिदर्शनमाह
वाससहस्सं उग्गं तवमाइगरस्स आयरंतस्स । जो किर पमायकालो अहोरत्तं तु संकलिअं ॥ ५२३ ॥ बारसवासे अहिए तवं चरंतस्स वद्धमाणस्स । जो किर पमायकालो अंतमुहुत्तं तु संकलिअं ॥५२४॥ 'वर्षसहस्र' मिति कालात्यन्तसंयोगे द्वितीया, ततश्च वर्षसहस्रप्रमाणं कालं यावत् 'उग्रम्' उत्कटं 'तपः' अनश
onal
For Private & Personal Use Only
www.jainelibrary.org