SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. बृहद्वृत्तिः ॥६१९॥ Jain Education I विकथाकपायाः उक्तरूपाः 'विसएसु'त्ति प्राग्वद्विषयाश्च 'भावतः ' भावमाश्रित्य प्रमादः । तथा स्थाननिक्षेपे प्रस्तावात्स्थानशब्दो नामादिभिः प्रत्येकं योज्यते, तत्र च द्रव्यस्थानं - नोआगमतो ज्ञशरीरभव्यशरीरव्यतिरिक्तं यत्सचित्ता| दिद्रव्याणामाश्रयः, क्षेत्रस्थानं - भरतादिक्षेत्रमूर्ध्वलोकादि वा यत्र वा क्षेत्रे स्थानं विचार्यते, अद्धा - कालः सैव तिष्ठत्य| स्मिन्निति स्थानमद्धास्थानं तच पृथिव्यादीनां भवस्थित्यादि समयावलिकादि वा, ऊर्द्धस्थानं कायोत्सर्गादि उप| रतिः - विरतिस्तत्स्थानं यत्रासौ गृह्यते, वसतिः- उपाश्रयस्तत्स्थानं ग्रामारामादि संयमः - सामायिकादिस्तस्य स्थानं - | प्रकर्षापकर्षवदध्यवसायरूपं, यत्र संयमस्यावस्थानं, तच्चासंङ्खधेयभेदभिन्नं, तथाहि - सामायिकच्छेदोपस्थापनीयपरिहारविशुद्धिकानां प्रत्येकम सङ्ख्थेय लोकाकाशप्रदेशपरिमाणानि संयमस्थानानि, सूक्ष्मसम्पराय संयमस्त्वान्तमौहूर्त्तिक |इत्यन्तर्मुहूर्त्त समयपरिमाणानि तत्स्थानानि, यथाख्यातसंयमस्तु प्रकर्षापकर्षरहित एकरूप एवेत्येकमेव तत्स्थानम्, एवं च सामायिकादीनामसङ्ख्येय भेदत्वात्समुदायात्मकस्य संयमस्थानस्याप्यसङ्खधेयभेदता, केवलमिह वृहत्तरमसङ्खयेयं गृथते, असङ्ख्यातानामसङ्ख्यात भेदत्वात्, 'प्रग्रहस्थानं' तु प्रकर्षेण गृह्यतेऽस्य वचनमिति प्रग्रहः - उपादेयवा| क्योऽधिपतित्वेन स्थापितः, स च लौकिको लोकोत्तरतश्च तस्य स्थानं, तच लौकिकं पञ्चधा - राजयुवराजमहत्तरामात्यकुमारभेदात्, लोकोत्तरमपि पञ्चधैव - आचार्योपाध्यायप्रवृत्तिस्थविरगणावच्छेदकभेदात्, 'योधस्थानम्' आलीढादि 'अचलस्थानं' निश्चलस्थितिरूपं, तत्र सादिसपर्यवसितादि परमाण्वादीनां गणनास्थानम् - एककादि सन्धानस्थानं For Private & Personal Use Only प्रमादस्था ना० ३२ ॥६१९॥ www.jainelibrary.org
SR No.600068
Book TitleUttaradhyayani Part_3
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy